This page has not been fully proofread.

11
 
" नित्यानन्दवपुर्निरन्तरगलत् पञ्चाशदर्णैः क्रमात्
व्याप्तं येन चराचरात्मकमिदं शब्दार्थरूपं जगत् ।
शब्दब्रह्म यदूचिरे सुकृतिनः चैतन्यमन्तर्गतं
तद् वोऽव्यादनिशं शशाङ्कसदनं वाचामधीशं महः ॥
 
" बिन्दोर्नादसमुद्भवः समुदिते नादे जगत्कारणं
तारं तत्त्वमुखाम्बुजं परिवृतं वर्णात्मकैः भूतजैः ।
आम्नायाचितुष्टयं पुररिपोः आनन्दमूलं वपुः
पायाद्वो मुकुटेन्दुखण्डविगलदिव्यामृतौषप्लुतम् ॥
"मूलोन्निद्रभुजङ्गराजमहिषीं यान्तीं सुषुम्नान्तरं
मित्त्वाऽऽधारसमूहमाशु विलसत्सौदामिनीसंनिभाम् ।
व्योमाम्भोजगतेन्दुमण्डलगलद्दिव्यामृतौघप्लुतां
सम्भाव्य स्वगृहं गतां पुनरिमां संचिन्तयेत् कुण्डलीम् ॥ "
 
(शारदातिलकम्)
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri