This page has not been fully proofread.

xxxvi
 
परश्शतेन शब्दविवरणेन पुस्तकावलोकनेन वा कथं ज्ञातुं शक्यं स्यात् ?
अतोत्र भागशः विवृतानपि विषयान् गुरुमुखादेवाधिगम्य सागराच्चास्मात्
अमूल्यानि रत्नानि संगृह्य आत्माभरणतां नीत्वा, आनन्दलहरीषु मग्नाः सौन्दर्य-
लहरीरसमनुभवन्तः सहृदयाः आत्मनो धन्यान् कुर्वन्त्वित्याशास्महे ।
 
[लक्ष्मीधरावलोकनम्]
 
लक्ष्मीधरायां चास्यां व्याख्यायां गुरुशिष्यभावविषये, (P. 83)
रसेयत्तानिर्णयविषये, (P. 138) बाह्यान्तरपूजाव्यवस्थाविषये (P. 97 )
तन्त्रेषु वैदिकत्वावैदिकत्वव्यवस्थाविषये, एवं अन्यान्येष्वपि विषयेषु
तन्त्रसिद्धान्तविदूराः युक्त्यौचित्यादिविहीनाश्च बहवः स्वबुद्धिसिद्धाः सिद्धान्ताः
प्रकटीकृताः । तेषां विषये बहुविचारिणीयाः अंशाः वर्तन्ते । ताइच
सययान्तरे निर्दिशामः ॥
 
[प्रतिश्लोकनियतयन्त्रादिविषये परिशीलनीयाः वंशाः]
 
एवं ग्रन्थान्ते मुद्रितानां यन्त्राणां विषयेऽपि बहुपरिशोधयितव्यं
बर्तते । यतः तत्तच्छ्रोकस्य, तत्संबन्धित्वेन प्रकटितस्य यन्त्रादिरूपस्य, उक्त-
नैवेद्यतत्फलादेश्च परस्परं को वा सम्बन्ध: ? इत्यस्मिन् विषये कश्चिदपि
न किञ्चित् प्रास्तौत् । दृश्यते च विचित्रता तेषु । तदनु मुद्रिता भावनोपनिषत्
पञ्चस्तवी च तत्र तत्र व्याख्यामपेक्षत एव । एतादृश्यो न्यूनताः प्रायः पुन-
मुद्रणसमये वा परिहृता भवेयुरिति मन्महे ।
 
[प्रकृतमुद्रणे नूततया संयोजिताः अंशाः]
प्रकृतमुदणे च अयं विशेष:- यत् आदौ विस्तृततरविषयसूची-
संयोजनं, अन्ते कर्णाटकजनपदप्रीत्यै श्लोकानां कन्नडभाषया अर्थानुवाद-
संयोजनं, विमर्शकाणां सौकर्याय विविधानुक्रमणीसंयोजनं चेति ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri