This page has not been fully proofread.

XXXV
 
[शिष्यलक्षणम्]
 
तदानुगुण्येन शिष्योऽपि -
"शिष्यः कुलीनः शुद्धात्मा पुरुषार्थपरायणः ।
अधीतवेदः कुशलः पितृमातृहिते रतः ।
धर्मवित् धर्मकर्ता च गुरुशुश्रूषणे रतः ।
सर्वशास्त्रार्थतत्त्वज्ञः दृढदेही दृढाशयः ॥
हितैषी प्राणिनां नित्यं परलोकार्थकर्मकृत् ।
वाङ्मनः कायवसुभिः गुरुशुश्रूषणे रतः ॥
अनित्यकर्मणः त्यागी नित्यानुष्ठानतत्परः ।
जितेन्द्रियो जितालस्यः जितमोहो विमत्सरः ॥" (गौतमीयतन्त्रम् )
इत्यायुक्तप्रकारो भवेत् ।
 
[गुरुमुखात् साधनतया निर्णीतः तन्त्रशास्त्रार्थः]
 
एवं शिष्यवृत्तिमास्थाय साधनामार्गे प्रस्थितस्य कुण्डलिनी प्रबोधेन
षट्चक्रविकासेन च कर्मक्षयद्वारा भगवत्प्राप्तिः मुक्तिश्चेत्येव इदं शास्त्रमु-
द्घोषयतिं । यथा -
 
" सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली ।
तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोsपि च ॥
तस्मात् सर्वप्रयत्नेन प्रबोधयितुमीश्वरीम् ।
 
ब्रह्मरन्ध्रमुखे सुप्तां मुद्राभ्यास समाचरेत् ॥" (शिवसंहिता) इत्यादि ।
[निगमनम्]
 
एवं साधनामयेन जीवनेन सुसंस्कृतैरेवान्तःकरणैः गम्योऽयं विषयः
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri