This page has not been fully proofread.

xxxiv
 
[प्रकृततन्त्रशास्त्रार्थप्रकाशस्य गुरुवराधीनता]
 
अत्र च जिज्ञासुभिः पाठकैर्महाशयैः सावधानैः भावुकैः, सारतः
महागुरुवरपरतन्त्रैश्य भाव्यम् । 'व्याख्यानसाहाय्येनैव सर्व ज्ञास्यामः' इत्यपि
केवलमाशामोदकतृप्तिरेव । उक्तं हि तन्त्रेष्वेव-

 
"पुस्तके लिखितं दृष्ट्वा येन सुन्दरि ! गृह्यते ।
 
न तस्य जायते सिद्धिः हानिरेव पदे पदे ॥ " ( तन्त्रं ) इति ॥
 
किन्तु – "पारम्पर्यागमाम्नायं मन्त्राचारादिकं प्रिये ।
सर्व गुरुमुखाल्लब्धं सफलं स्यान्न चान्यथा ॥
 
श्रुत्वा तन्त्रं गुरोर्लब्धं साधयेद्दीक्षितं मनुम् ।
गुरुमुख्याः क्रियाः सर्वाः भुक्तिमुक्तिफलप्रदाः ॥" (कुलार्णवः)
 
गुरुश्च -
 
-
 
इत्याद्युक्तप्रकारेण सर्व गुरुमुखांदेवावगन्तव्यम् ।
 
[प्रसङ्गतो गुरुलक्षणम्]
 
"आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः ।
पुत्रदारैश्च सम्पन्नः गुरुः आगमसंमतः ॥" (रुद्रयामलम्)
 
,
 
इत्युक्तप्रकार:, आगमसंप्रदाये सिद्धः, स्थिरधीः, अनघः, श्रोत्रियः,
ब्रह्मनिष्ठः, सत्त्वस्थः सत्यवाक्, समयनियतया साधुवृच्या समेतः, डम्भासूयादि
मुक्तः, जितविषयगणः दीर्घबन्धुः, दयालुः, स्खालित्ये शासिता, स्वपरहितपरः,
अज्ञानध्वान्तरोषी, अघपरिहारकः आत्मसाम्यावहः, जन्मप्रध्वंसिजन्मप्रदः
दिव्यदृष्टिप्रदाता, निष्प्रत्यूहानृशंस्यवान्, नियतरसश्च भवेत् । (न्यास-
विंशतिः 1. )
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri