This page has not been fully proofread.

सकल जननीस्तोत्रम्
अवाप्याज्ञां शैवीं शिवतनुमपि त्वां विदितवान्
नयेयं त्वत्पूजास्तुतिविरचनेनैव दिवसान् ॥
यत् षट्रपत्रं कमलमुदितं तस्य या कर्णिकारख्या
योनिस्तस्याः प्रथितमुदरे यत्तदोङ्कारपीठम् ।
तस्याप्यन्तः कुचभरनतां कुण्डलीति प्रसिद्धां
 

 
श्यामाकारां सकलजननीं सन्ततं भावयामि ॥
भुवि पयसि कृशानौ मारुते खे शशाङ्के
 
सवितरि यजमानेऽप्यष्टधा शक्तिरेका ।
वहसि कुचभराभ्यां याऽवनम्रापि विश्व
सकलजननि ! सा त्वं पाहि मामित्यवाच्यम् ॥
 
इति पन्चस्तवी व समाप्ता सकलजननीस्तवः पञ्चमः
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
३१५
 
३६
 
३७
 
३८