This page has not been fully proofread.

३१४
 
देवीस्तोत्रपञ्चके
 
दवीयो नेदीयस्सदसदिति विश्वं भगवती
 
सदा पश्यन्त्याख्यां वहसि भुवनक्षोभजननीम् ॥
प्रविश्य त्वन्मार्ग सहजदयया देशिकदृशा
षडध्वध्वान्तौषच्छिदुरगणनातीतकरुणाम् ।
पररामाज्ञाकारां सपदि शिवयन्तीं शिवतनुं
स्वमात्मानं धन्याश्चिरमुपलभन्ते भगवतीम् ॥
मयूखाः पूष्णीव ज्वलन इव तद्दीप्तिकणिकाः
पयोधौ कल्लोलाः प्रतिहतमहिम्नीव पृषतः ।
उदेत्योदेत्थाम्ब ! त्वयि स निजैस्सात्विक गुणैः
भजन्ते तत्त्वौघाः प्रशममनुकल्पं परवशाः ॥
विधुर्विष्णुब्रह्मा प्रकृतिरणुरात्मा दिनकरः
स्वभावो जैनेन्द्रस्सुगतमुनिराकाशमलिनः ।
शिवश्शक्तिश्चेति श्रुतिविषयतां तामुपगता
विकल्पैरेमिस्त्वाममिदघति सन्तो भगवतीम् ॥
शिवस्त्वं शक्तिस्त्वं त्वमसि समया त्वं समयिनी
त्वमात्मा त्वं दीक्षा त्वमयमणिमादिर्गुणगणः ।
अविद्या त्वं विद्या त्वमसि निखिलं त्वं किमपरं
 
पृथक्कत्वं त्वत्तो भगवति न वीक्षामह इमे ॥
त्वयासौ जानीते रचयति भवत्यैव सततं
 
त्वयैवेच्छत्यम्ब ! त्वमसि निखिला यस्य तनवः ।
जगत्साम्यं शम्भोर्वहसि परमव्योमवपुषः
 
तथाप्यर्ध भूत्वा विहरसि शिवस्येति किमिदम् ॥
असङ्ख्यैः प्राचीनैर्जननि । जननैः कर्मविलयात्
सकृज्जन्मन्यन्ते गुरुवपुषमासाद्य गिरिशम् ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
३०
 
३१
 
३२
 
३३
 
३४
 
३५