This page has not been fully proofread.

सकलजननीस्तोत्रम्
श्रुतीनां मूर्धानः प्रकृतिकठिनाः कोमलतरे
 
कथं ते विन्दन्ते पदकिसलये पार्वति ! पदम् ॥
तटिडल्लो नित्याममृतसरितं पाररहितां
 
मलोत्तीणी ज्योत्स्नां प्रकृतिमगुणग्रन्थिगहनाम् ।
गिरां दूरां विद्यामविनतकुचां विश्वजननीं
 
अपर्यन्तां लक्ष्मीमभिदधति सन्तो भगवतीम् ॥
शरीरं क्षित्यम्भः प्रभृतिरचिंत केवलमचित्
 
सुख दुःखं चायं कलयति पुमांश्चेतन इति ।
स्फुटं जानानोऽपि प्रभवति न देही रहयितुं
 
शरीराहकारं तब समयबाह्यो गिरिसुते ॥
पिंता माता भ्राता सुहृदनुचरस्सद्म गृहिणी
 
वपुः क्षेत्रं मित्र धनमपि यदा मां विजहति ।
तदा मे भिन्दाना सपदि भयमोहान्धतमसं
 
महाज्योत्स्ने ! मातः ! भव करुणया सन्निधिकरी ॥
सुता दक्षस्यादौ किल सकलमातः ! त्वमुदभूः
 
सदोषं तं हित्वा तदनु गिरिराजस्य दुहिता ।
अनाद्यन्ता शम्भोरपृथगपि शक्तिर्भगवती
 
विवाहाज्जायाऽसीत्यहह चरितं वेत्ति तव कः ॥
 
कणास्त्वद्दीप्तीनां रविशशिक्कृशानुप्रभृतयः
 
परं ब्रह्म क्षुद्रं तव नियतमानन्दकणिका ।
शिवादि क्षित्यन्तं त्रिवलयतनोस्सर्वमुदरे
 
तवास्ते भक्तस्य स्फुरसि हृदि चित्रं भगवति ॥
पुरः पश्चादन्तर्बहिरपरिमेयं परिमितं
 
परं स्थूलं सूक्ष्मं सकलमकलं गुह्यमगुहम् ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
२४
 
२५
 
२६
 
२७
 
२८
 
२९