This page has not been fully proofread.

सकलजननीस्तोत्रम्
 
प्रपद्योर्ध्वं नादं लयदहनभस्मीकृतकुल:
 
प्रसादात्ते जन्तुश्शिवमकुलमम्ब ! प्रविशंति ॥
मनुष्यास्तियञ्चो मरुत इति लोकत्रयमिंद्र
भवाम्भोघौ मनं त्रिगुणलहरीकोटिलुठितम् ।
कटाक्षश्चेद्यत्र क्वचन तव मातः करुणया
 
शरीरी सद्योऽयं व्रजति परमानन्दतनुताम् ॥
प्रियङ्गुश्यामाङ्गीमरुणतरवास किसलयां
समुन्मीलन्मुक्ता फलबहलनेपथ्यसुभगाम् ।
स्तनद्वन्द्वस्फारस्तबकनमितां कल्पलतिकां
 
सकृद्ध्यायन्तस्त्वां दधति शिवचिन्तामणिपदम् ॥
षडाधारावर्तैरपरिमितमन्त्रोर्मिपटलैः
लसन्मुद्राफेनैर्बहुविध चलदैवतझषैः ।
क्रमस्रोतोमिस्त्वं वहसि परनादामृतनदी
 
भवानि ! प्रत्यग्रा शिवचिदमृताब्धिप्रणयिनी ॥
महीपाथोवह्विश्वसनवियदात्मेन्दुरविभिः
वपुर्भिर्मस्ताशैरपि तव कियानम्ब ! महिमा ।
अमून्यालोल्यन्ते भगवति ! न कुत्राप्यणुतमां
अवस्थां प्राप्तानि त्वयि तु परमव्योमवपुषि ॥
कलामाज्ञां प्रज्ञां समयमनुभूर्ति समरसं
 
गुरुं पारम्पर्यं विनयमुपदेशं शिवपदम् ।
प्रमाणं निर्वाणं प्रकृतिमभिभूतिं परगुहां
 
विधिं विद्यामाहुस्सकलजननीमेव मुनयः ॥
प्रलीने शब्दौघे तदनु विरते बिन्दुविभवे
 
ततस्तत्त्वे चाष्टध्वनिमिरनपायिन्यधिगते ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
३११
 
१२
 
१३
 
१४
 
१५
 
१७