This page has not been fully proofread.

देवीस्तोत्रपञ्चके
 
प्रसीद प्रत्यक्षीभव गिरिसुते ! देहि शरणं
निरालम्धं चेतः परिलुठति पारिप्लवमिदम् ॥
शुनां वा बर्वा खगपरिषदो वा यदशनं
 
कदा केन क्वेति क्वचिदपि न कश्चित्कलयति ।
अमुष्मिन् विश्वासं विजहिहि ममाह्वाय वपुषि
प्रपद्येथाश्चेतः ! सकलजननीमेव शरणम् ॥
तटित्कोटिज्योतिर्छु तिदलितषड्ग्रन्थिगहनं
 
प्रविष्टं स्वाधारं पुनरपि सुधावृष्टिवपुषा ।
किमप्यष्टाविंशत्किरणसकलीभूतमनिशं
 
भजे धाम श्यामं कुचभरनतं बर्बरकचम् ॥
चतुष्पत्रान्तषड्दलपुटभगान्तस्त्रिवलय-
स्फुरद्वियुद्धद्विद्युमणिनियुताभयुतिलते ।
षडथं भित्त्वाऽऽदौ दशदलमथ द्वादशदलं
कलाश्रं च द्वयश्र गतवति नमस्ते गिरिसुते ॥
कुलं केचित्प्राहुर्ब पुरकुलमन्ये तब बुधाः
परे तत्संभेदं समभिदघते कौलमपरे ।
चतुर्णामप्येषामुपरि किमपि प्राहुरपरे
 
महामाये ! तत्त्वं तव कथममी निश्चिनुमहे ॥
षडध्वारण्यानीं प्रलयरविकोटिप्रतिरुचा
 
रुचा भस्मीकृत्य स्वपदकमलप्रहशिरसाम् ।
वितन्वानश्शैवं किमपि वपुरिन्दीवररुचिः
 
कुचाभ्यामानम्रस्तव पुरुषकारो विजयते ॥
प्रकाशानन्दाभ्यामविदितचरीं मध्यपदवीं
प्रविश्यैतद्वन्द्व रविशशिसमाख्यं कबलयन् ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 

 

 

 

 
१०
 
{{