2023-02-16 08:26:56 by ambuda-bot
This page has not been fully proofread.
(५) सलकजननीस्तोत्रम्
अजानन्तो यान्ति क्षयमवशमन्योन्य कलहैः
अमी मायाग्रन्थौ तव परिलुठन्तस्समयिनः ।
जगन्मातः ! जन्मज्वरभयतमः कौमुदि ! वयं
नमस्ते कुर्वाणाश्शरणमुपयामो भगवतीम् ॥
वचस्तर्कागम्यस्वरसपरमानन्दविभव-
प्रबोधाकाराय द्युतितुलितनीलोत्पलरुचे ।
शिवाद्याराध्याय स्तनभरविनम्राय सततं
नमस्तस्मै कस्मैचन भवतु मुग्धाय महसे ॥
अनाद्यन्ता भेदप्रणयरसिकापि प्रणयिनी
शिवस्यासीर्यत्त्वं परिणयविधौ देवि ! गृहिणी ।
सवित्री भूतानामपि यदुदभूश्शैलतनया
तदेतत्संसार प्रणयनमहानाटकमुखम् ॥
ब्रुवन्त्येके तत्त्वं भगवति सदन्ये विदुरसत्
परे मातः ! प्राहुस्तव सदसदन्ये सुकवयः ।
परे नैतत्सर्व समभिदधते देवि ! सुधियः
तदेतत्त्वन्मायाविलसितमशेषं नंनु शिवे ॥
लठद्गुजाहार स्तनभरनमन्मध्यलतिकां
उदञ्चद्धर्माम्भःकणगुणित*वक्राम्बुजरुचम् ।
शिवं पार्थत्राणप्रवणमृगयाकारगुणित
शिवामन्वग्यान्तीं शरणमहमन्वेमि शबरीम् ॥
मिथःकेशाकेशिप्रथननिधनास्तर्कघटनाः
बहुश्रद्धाभक्तिप्रणतिविषयाश्शास्त्रविधयः ।
* नीलोत्पलरुचिम्-पा.
३०९
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
१
२
३
५
अजानन्तो यान्ति क्षयमवशमन्योन्य कलहैः
अमी मायाग्रन्थौ तव परिलुठन्तस्समयिनः ।
जगन्मातः ! जन्मज्वरभयतमः कौमुदि ! वयं
नमस्ते कुर्वाणाश्शरणमुपयामो भगवतीम् ॥
वचस्तर्कागम्यस्वरसपरमानन्दविभव-
प्रबोधाकाराय द्युतितुलितनीलोत्पलरुचे ।
शिवाद्याराध्याय स्तनभरविनम्राय सततं
नमस्तस्मै कस्मैचन भवतु मुग्धाय महसे ॥
अनाद्यन्ता भेदप्रणयरसिकापि प्रणयिनी
शिवस्यासीर्यत्त्वं परिणयविधौ देवि ! गृहिणी ।
सवित्री भूतानामपि यदुदभूश्शैलतनया
तदेतत्संसार प्रणयनमहानाटकमुखम् ॥
ब्रुवन्त्येके तत्त्वं भगवति सदन्ये विदुरसत्
परे मातः ! प्राहुस्तव सदसदन्ये सुकवयः ।
परे नैतत्सर्व समभिदधते देवि ! सुधियः
तदेतत्त्वन्मायाविलसितमशेषं नंनु शिवे ॥
लठद्गुजाहार स्तनभरनमन्मध्यलतिकां
उदञ्चद्धर्माम्भःकणगुणित*वक्राम्बुजरुचम् ।
शिवं पार्थत्राणप्रवणमृगयाकारगुणित
शिवामन्वग्यान्तीं शरणमहमन्वेमि शबरीम् ॥
मिथःकेशाकेशिप्रथननिधनास्तर्कघटनाः
बहुश्रद्धाभक्तिप्रणतिविषयाश्शास्त्रविधयः ।
* नीलोत्पलरुचिम्-पा.
३०९
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
१
२
३
५