This page has not been fully proofread.

देवीस्तोत्रपञ्चके
 
निर्देवयानपितृयानविहारमेके
कृत्वा मनः करणमण्डलसार्बभौमम् ।
 
घ्याने निवेश्य तव कारणपञ्चकस्य
 
पर्वाणि पार्वति ! नयन्ति निजासनत्वम् ॥
 
स्थूलासु मूर्तिषु महीप्रमुखासु मूर्तेः
 
कस्याब्धनापि तव वैभवमम्ब ! यस्याः ।
 
पत्या गिरामपि न शक्यत एव वक्तुं
 
सापि स्तुता किल मयेति तितिक्षितव्यम् ॥
कालामिकोटिरुचिमम्ब षडध्वशुद्धौ
आप्लावनेषु भवतीममृतौघवृष्टिम् ।
 
श्यामां घनस्तनतटां शकलीकृताघां
 
ध्यायन्त एव जगतां गुरवो भवन्ति ॥
विद्यां परां कतिचिदम्बरमम्ब । केचित्
 
आनन्दमेव कतिचित्कतिचिच्च मायाम् ।
 
त्वां विश्वमाहुरपरे वयमामनामः
 
साक्षादपारकरुणां गुरुमूर्तिमेव ॥
 
कुवलयदलनीलं बर्बरस्निग्धकेशं
 
पृथुतरकुचभाराक्रान्तकान्तावलमम् ।
 
किमिह बहुमिरुक्तस्त्वत्स्वरूपं परं नः
 
सकलजननि ! मातः ! सन्ततं सन्निधत्ताम् ॥
इस्यम्बास्तवः चतुर्थः
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
२८
 
२९
 
३०
 
३१
 
३२