This page has not been fully proofread.

अम्बास्तवः
 
सङ्कोचमिच्छसि यदा गिरिजे ! तदानीं
वाक्तर्कयोस्त्वमसि भूमिरनामरूपा ।
 
यहा विकासमुपयासि यदा तदानीं
 
त्वन्नामरूपगणनास्सुकरा भवन्ति ॥
भोगाय देवि ! भवतीं कृतिनः प्रणम्य
भ्रूकिङ्करीकृतसरोजगृहास्सहस्रम् ।
चिन्तामणिप्रचयकल्पितके लिशले
 
कल्पद्रुमोपवन एव चिरं रमन्ते ॥
 
हर्त त्वमेव भवसि त्वदधीनमीशे
 
संसारतापमखिलं दयया पशूनाम् ।
 
वैकर्तनी किरणसंहतिरेव शक्ता
 
घर्मं निजं शमयितुं निजयैव वृष्ट्या ।
शक्तिश्शरीरमधिदैवतमन्तरात्मा
 
ज्ञानं क्रिया करणमानसजालमिच्छा ।
ऐश्वर्यमायतनमावरणानि च त्वं
 
किं तन्न यद्भवसि देवि शशाङ्कमौले: ॥
भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा
 
विद्याsनले मरुति शान्तिरतीव कान्तिः ।
 
व्योम्नीति याः किल कलाः कलयन्ति विश्व
 
तासां हि दूरतरमम्ब ! पदं त्वदीयम् ॥
यावत्पदं पदसरोजयुगं त्वदीयं
 
नाङ्गीकरोति हृदयेषु जगच्छरण्ये !
 
तावद्विकल्पजटिलाः कुटिलप्रकाराः
 
तर्कग्रहास्समयिनां प्रलयं न यान्ति ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
३०७
 
२२
 
२३
 
२४
 
२५
 
२६
 
२७