This page has not been fully proofread.

देवीस्तोत्रपञ्चके
 
अर्धेन किं नवलताललितेन मुग्धे
क्रीतं विभोः परुषमर्धमिदं त्वयेति ।
आलीजनस्य परिहासवचांसि मन्ये
 
मन्दस्मितेन तव देवि! जडीभवन्ति ॥
ब्रह्माण्डबुद्बुदकदम्बकसङ्कुलोऽयं
मायोदधिर्वि विधतत्वतरङ्गमालाः ।
आश्चर्यमम्ब ! झडिति प्रलयं प्रयाति
त्वध्यानसन्ततिमहाबडबामुखामौ ॥
 
दाक्षायणीति कुटिलेति कुहारिणीति
 
कात्यायनीति कमलेति कलावतीति ।
 
एका सती भगवती परमार्थतोऽपि
 
संदृश्यसे बहुविधा ननु नर्तकीव ॥
 
आनन्द लक्षणमनाहतनाम्नि देशे
 
नादात्मना परिणतं तव रूपमीशे ।
प्रत्यङ्मुखेन मनसा परिचीयमानं
शंसन्ति नेत्रसलिलैः पुलकैश्च धन्याः ॥
त्वं चन्द्रिका शशिनि तिम्मरुचौ रुचिस्तं
त्वं चेतनासि पुरुषे पवने बलं त्वम् ।
त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा
निस्सारमेव निखिलं त्वहते यदि स्यात् ॥
ज्योतींषि यद्दिवि चरन्ति यदन्तरिक्षं
 
सूते पयांसि यदहिर्घरणीं च धत्ते ।
 
याति वायुरनलो यदुदर्चिरास्ते
 
तत्सर्वमम्ब ! तव केवलमाज्ञ्यैव ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
१६
 
१७
 
१८
 
१९
 
२०
 
२१