This page has not been fully proofread.

xxxiii
 
ते सर्वे तन्त्रमार्गतत्त्वा परिज्ञानमूलाः, तन्त्रमार्गे निकर्षभावनामूलाश्च । स्तोत्रे
चस्मिन् परिदृश्यमानां आचार्याणां हार्दा भक्ति श्रद्धां च कपटनाटकं कथयन्तः
कथं वा आत्मन्येव न लज्जेरन् ? एतैः आचार्यैः काञ्चयां कृतं कामाक्षी-
देवी प्रतिष्ठापनं, श्रीचक्रप्रतिष्ठापनं च विमर्शकैः न विस्मर्तव्यम् । एवमननु-
भविजल्पनाविमर्शद्धिरम्य, रसिकानां अभिनन्दनमेव स्मरामः ।
 
[ अस्याः सौन्दर्यलहर्याः स्वरूपम् ]
 
प्रकृते इयं सौन्दर्यलहरी ग्रन्थपरिमाणदृष्ट्या अल्पापि साहित्यदृष्ट्या
स्तोत्ररूपापि, तन्त्रशास्त्रसारसर्वस्वरूपा, आत्मानन्दलहरीमज्जनापेक्षिणां सर्वेषा-
मप्यत्यन्तमुपादेया । यतः एतद्विषयीभूता समयाख्या चन्द्रकलारूपिणी
श्रीचक्रविद्याधिष्ठात्री शक्त्यात्मिका त्रिपुरसुन्दरी देवी कुण्डलिनी उपासकानां
अभ्युदयनिःश्रेयसप्रदात्रीत्येव स्मयते । यथा-
"शिवशक्तिस्वरूपेयं महात्रिपुरसुन्दरी ।
 
साक्षात् कामदुषा नृणां ज्ञानदा मुक्तिदायिनी ॥ (त्रिपुरासिद्धान्तः)" इति,
"यः शिवो नामरूपाभ्यां या देवी सर्वमङ्गला ।
 
तयोः संस्मरणात् पुंसां सर्वतो जयमङ्गलम् ॥" इति च ॥
 
[व्यक्तायाः देव्याः अव्यक्तशक्तिसोपानरूपता]
 
शक्तेः भक्तानु-
देवी चेयं न केवला व्यक्तिः । किन्तु अव्यक्तायाः
ग्रहार्थ परिगृहीतः व्यक्तः आकार एव देवीत्युच्यते । शक्तिः खलु
सर्वत्राव्यक्ता वाचामगोचरा च, वीरे विद्यमानं वीर्यमिव शक्तिरिव च ।
आन्तरस्य धर्मस्य परिचायकः खलु सोपानात्मना विद्यमानः बाह्यः आकारः ।
अत्र विद्यमाना देवीवर्णना सर्वापि सुसंस्कारवद्भिः परामृश्यमाना तन्मूलतः
स्थितां शक्तिस्वरूपां देवतां, तदनु तस्यापि मूलतः विद्यमानं तत्त्वं च स्वयमेव
उपस्थापयति ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri