This page has not been fully proofread.

अम्बास्तवः
 
कल्पोपसंहरणकेलिपु पण्डितानि
चण्डानि खण्डपरशोरपि ताण्डवानि ।
आलोकनेन तव कोमलितानि मातः !
 
लास्यात्मना परिणमन्ति जगद्विभूत्यै ॥
जन्तोर पश्चिमतनोस्सति कर्मसाम्ये
 
निश्शेषपाशपटलच्छिदुरा निमेषात्
 
कल्याणि ! देशिककटाक्ष समाश्रयेण
 
कारुण्यतो भवति शम्भववेदीक्षा ॥
 
मुक्ताविभूषणवती नवविद्रुमाभा
 
यच्चेतसि स्फुरसि तारकितेव सन्ध्या ।
 
एकस्स एव भुवनत्रयसुन्दरीणां
 
कन्दर्पतां व्रजति पञ्चशरीं विनापि ॥
 
ये भावयन्त्यमृतवाहिभिरंशु जालैः
 
आप्यायमानभुवनाममृतेश्वरीं त्वाम् ।
 
ते लङ्घयन्ति ननु मातरलङ्घनीयां
 
ब्रह्मादिभिस्सुरवरैरपि कालकक्षाम् ॥
 
यस्स्फाटिकाक्षगुणपुस्तककुण्डिकाढ्यां
व्याख्यासमुद्यतकरां शरदिन्दुशुभ्राम् ।
पद्मासनां च हृदये भवतीमुपास्ते
 
मातः ! स विश्वकवितार्किकचक्रवर्ती ॥
बवतंसयुतबर्बरकेशपाशां
गुञ्जावलीकृतघनस्तनहारशोभाम् ।
 
श्यामां प्रवालवदनां सुकुमारहस्तां
 
त्वामेव नौमि शबरीं शबरस्य जायाम् ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
20
 
१०
 
११
 
१२
 
१३
 
20
 
१५