This page has not been fully proofread.

देवीस्तोत्रपञ्चके
 
आविर्भबत्पुलकसन्ततिभिश्शरीरैः
निस्स्यन्दमानसलिलैर्नयनैश्च
 
नित्यम् ।
 
वाग्मिश्च गद्गदपदाभिरुपासते ये
 
पादौ तवाम्ब ! भुवनेषु त एव धन्याः ॥
वक्तं यदुद्यतमभिष्टुतये भवत्याः
 
तुभ्यं नमो यदपि देवि । शिरः करोति ।
चेतश्च यत्त्वयि परायणमम्ब ! तानि
 
कस्यापि कैरपि भवन्ति तपोविशेषैः ॥
मूलालवालकुहरादुदिता भवानि ।
 
निर्भिद्य षट्सरसिजानि तटिल्लतेव ।
भूयोऽपि तत्र विशसि ध्रुवमण्डलेन्दु-
निस्स्यन्दमानपरमामृततोयरूपा ॥
 
दग्धं यदा मदनमेकमनेकधा ते
 
मुग्धः कटाक्षविधिरङ्कुरयाञ्चकार ।
धत्ते तदाप्रभृति देवि ललाटनेत्रं
 
सत्यं वियैव मुकुलोकृतमिन्दुमौलेः ॥
 
अज्ञातसम्भवमनाकलितान्ववायं
 
मिक्षु कपालिनमवाससमद्वितीयम् ।
पूर्व करग्रहणमङ्गलतो भवत्याः
 
शम्भुं क एव बुबुधे गिरिराजकन्ये ॥
चर्माम्बरं च शवभस्मविलेपनं च
 
मिक्षाटनं च नटनं च परेतभूमौ ।
 
वेताळसंहतिपरिग्रहता च शम्भोः
 
शोभां बिभर्ति गिरिजे। तव साहचर्यात् ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
8