This page has not been fully proofread.

अम्बास्तवः
 
भक्तिश्चेदविनाशिनी भगवतीपादद्वयी सेव्यतां
 
उन्निद्राम्बुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥
 
याचे न कञ्चन न कञ्चन वञ्चयामि
 
सेवे न कञ्चन निरस्तसमस्तदैन्यः ।
लक्ष्णं वसे मधुरमझि भजे वरस्त्रीः
 
देवी हृदि स्फुरति मे कुलकामधेनुः ॥
नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् ।
 
भवानीं भवसन्ता पनिर्वापणसुधानदीम् ॥
 
इति घटस्तवः तृतीयः
 
(४) अम्बास्तवः
 
यामामनन्ति मुनयः प्रकृतिं पुराणीं
 
विद्येति यां श्रुतिरहस्यविदो वदन्ति ।
तामर्धपल्लविंतशङ्कररूपमुद्री
देवीमनन्यशरणश्शरणं प्रपद्ये ॥
अम्ब स्तवेषु तव तावदकर्तृकाणि
 
कुण्ठीभवन्ति वचसामपि गुम्भनानि ।
 
डिम्भस्य मे स्तुतिरसावसमञ्जसापि
 
वात्सल्यनिघ्नहृदयां भवर्ती घिनोतु ॥
 
व्योमेति बिन्दुरिति नाद इतीन्दुलेखा-
रूपेति वाग्भवतनूरिति मातृकेति
निस्स्यन्दमानसुखबोध सुधास्वरूपा
विद्योतसे मनसि भाग्यवतां जनानाम् ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
१९
 
२०
 
२१