2023-02-16 08:26:55 by ambuda-bot
This page has not been fully proofread.
देवीस्तोत्र पञ्चके
अच्छिन्ना च मनोहरा च ललिता चातिप्रसन्नापि च
त्वामेवं स्मरतस्स्मरारिदयिते वाक्सर्वतो वल्गति ॥
ददातीष्टान् भोगान् क्षपयति रिपून् हन्ति विपदो
दहत्याधीन् व्याघीन् शमयति सुखानि प्रतनुते ।
हठादन्तर्दुःखं दलयति पिनष्टीष्ट विरहं
सकृद्ध्याता देवी किमिव निरवद्यं न कुरुते ॥
यस्त्वां ध्यायति वेत्ति विन्दति जपत्यालोकते चिन्तय-
त्यन्वेति प्रतिपद्यते कलयति स्तोत्याश्रयत्यचति ।
यश्च त्र्यम्बकवल्लभे ! तव गुणानाकर्णयत्यादरात्
तस्य श्रीर्न गृहादपैति विजयस्तस्याग्रतो धावति ॥
किंकिं दुःखं दनुजदलिनि ! क्षीयते न स्मृतायां
का का कीर्तिः कुलकमलिनि ! ख्याप्यते न स्तुतायाम् ।
का का सिद्धिस्सुरवरनुते ! प्राप्यते नार्चितायां
३०२
कं कं योगं त्वयि न चिनुते चित्तमालम्बितायाम् ॥
ये देवि ! दुर्धरकृतान्तमुखान्तरस्थाः
ये कालि ! कालघनपाशनितान्तबद्धाः ।
ये चण्डि ! चण्डगुरुकल्मपसिन्धुमग्नाः
तान् पासि मोचयसि तारयसि स्मृतैव ॥
लक्ष्मीवशीकरणचूर्णसहोदराणि
त्वत्पादपङ्कजरजांसि चिरं जयन्ति ।
यानि प्रणाममिलितानि नृणां ललाटे
लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥
रे मूढाः ! किमयं वृथैव तपसा कायः परिक्किश्यते
यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियन्ते गृहाः ।
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
१३
१४
१५
१६
१७.
१८