This page has not been fully proofread.

घटस्तव:
 
विश्वव्यापिनि यद्वदीश्वर इति स्थाणावनन्याश्रयः
शब्दशक्तिरिति त्रिलोकजननि ! त्वय्येव तथ्यस्थितिः ।
इत्थं सत्यपि शक्नुवन्ति यदिमाः क्षुद्रा रुजो बाधितु
त्वद्भक्तानपि न क्षिणोषि च रुषा तद्देवि ! चिंत्र महन् ।
इन्दोर्मध्यगतां मृगाङ्कसदृशच्छायां मनोहारिणीं
 
पाण्डूत्फुल्लसरोरुहासनगतां स्निग्धप्रदीपच्छविम् ।
वर्षन्तीममृतं भवानि । भवतीं ध्यायन्ति ये देहिनः
 
ते निर्मुक्तरुजो भवन्ति रिपव: प्रोज्झन्ति तान् दूरतः ॥
पूर्णेन्दोश्शकलैरिवातिबहलैः पीयूषपूरैरिव
क्षीराब्धेलहरी भरैरिव सुधापकस्य पिण्डैरिव ।
प्रालेयैरिव निर्मितं तव वपुर्ध्यायन्ति ये श्रद्धया
चित्तान्तर्निहितार्तितापविपदस्ते सम्पदं बिभ्रति ॥
 
ये संस्मरन्ति तरलां सहसोल्लसन्तीं
 
त्वां ग्रन्थिपञ्चकभिदं तरुणार्कशोणाम् ।
रागार्णवे बहलरागिणि मज्जयन्तीं
 
कृत्स्नं जगद्दधति चेतसि तान् मृगाक्ष्यः ॥
लाक्षारसस्नपितपङ्कजतन्तुतन्वीं
 
अन्तः स्मरत्यनुदिनं भवतीं भवानि !
यस्तं स्मरप्रतिममप्रतिमस्वरूपाः
 
नेत्रोत्पलैमृगदृशो भृशमर्चयन्ति ॥
स्तुमस्त्वां वाचमव्यक्तां हिमकुन्देन्दुरोचिषम् ।
 
कदम्बमालां बिभ्राणामापादतललम्बिनीम् ॥
 
मूर्ध्नान्दोस्सितपङ्कजासनगतां प्रालेयपाण्डुत्विषं
वर्षन्तीममृतं सरोरुहभुवो वक्तेऽपि रस्त्रेऽपि च
 
**
 
CC-0. Jangamwadi Math Collection. Digitized by
 
३०१
 

 

 
१०
 
११
 
१२
 
NANA SIMHASAN JNAN:-
LIBRARY
fangamawadi Math,
 
1034...