This page has not been fully proofread.

२९८
 
देवी स्तोत्रपञ्चके
त्वामैन्दवीमिव कलामनुफालदेशं
उद्भासिताम्बरतलामवलोकयन्तः ।
सद्यो भवानि ! सुधियः कवयो भवन्ति
त्वं भावनाहितधियां कुलकामधेनुः
शर्वाणि ! सर्व जनवन्दितपादपद्मे !
पद्मच्छदद्युतिविडम्बितनेत्रलक्ष्मि !
निष्पापमूर्तिजनमानसराजहंसि !
 
हंसि त्वमापदमनेकविधां जनस्य ॥
 
उत्तप्तहेमरुचिरे ! त्रिपुरे ! पुनीहि
 
चेतश्चिरन्तनमधौघवनं लुनीहि ।
 
कारागृहे निगलबन्धनयन्त्रितस्य
 
त्वत्संस्मृतौ झडिति मे निगलास्त्रुटन्ति ॥
 
त्वां व्यापिनीति सुमना इति कुण्डलीति
 
त्वां कामिनीति कमलेति कलावतीति ।
त्वां मालिनीति ललितेत्यपराजितेठि
 
देवि ! स्तुवन्ति विजयेति जयेत्युमेति ॥
उद्दामकामपरमार्थसरोजखण्ड-
चण्डद्युतिद्युतिमपासितषड्डिकाराम् ।
मोहद्विपेन्द्रकदनोद्यतबोधसिंह-
लीलागुहां भगवतीं त्रिपुरां नमामि ॥
गणेशवटुकस्तुता रविसहायकामान्विता
 
स्मराविरविष्टरा कुसुमबाणबाणैर्युता ।
अनङ्गकुसुमादिभिः परिवृता च सिद्धैस्त्रिभिः
 
कदम्बवनमध्यगा त्रिपुरसुन्दरी पातुः नः ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
२०
 
२१
 
२२
 
m
 
२४
 
२५