This page has not been fully proofread.

चर्चास्तवः
मातर्मुहूर्तमपि यः स्मरति स्वरूपं
लाक्षारसप्रसरतन्तुनिभं भवत्याः ।
 
ध्या यन्त्यनन्य मनसस्त
मनङ्गतप्ताः
 
प्रद्युम्नसीनि सुभगत्वगुणं तरुण्यः ॥
योऽयं चकास्ति गगनार्णवरत्नमिन्दुः
 
योऽयं सुरासुरगुरुः पुरुषः पुराणः ।
यद्भागमर्धमिदमन्धकसूदनस्य
 
देवि ! त्वमेव तदिति प्रतिपादयन्ति ॥
इच्छांनुरूपमनुरूपगुणप्रकर्ष-
सङ्कर्षिणि ! त्वमभिमृश्य यदा बिभर्षि ।
 
जायेत स त्रिभवनैकगुरुस्तदानीं
 
देवश्शिवोऽपि भुवनत्रयसूत्रधारः ॥
ध्यातासि हेमवति ! येन हिमांशुरश्मि-
मालामलद्युतिरंकल्मषमानसेन ।
तस्याविलम्बमनवद्यमनन्तकल्पं
 
अल्पैर्दिनस्सृजसि सुन्दरि ! वाग्विलासम् ॥
 
आधारमारुतनिरोधवशेन येषां
 
सिन्दूररञ्जितसरोजगुणानुकारि ।
दीप्तं हृदि स्फुरति देवि वपुस्त्वदीयं
 
ध्यायन्ति तानिह समीहितसिद्धिसार्थाः ॥
 
ये चिन्तयन्त्यरुणमण्डलमध्यवर्ति
 
रूपं तावाम्ब ! नवयावकपङ्कपिङ्गम् ।
तेषां सदैव कुसुमायुधबाणभिन्न-
वक्षःस्थला मृगहशो वशगा भवन्ति ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
२९७
 
१४
 
१५
 
१६
 
१७
 
१९