This page has not been fully proofread.

xxxii
 
"अविद्यायामन्तरे वर्तमानाः
 
स्वयं धीराः पण्डितंमन्यमानाः ।
दन्द्रम्यमाणाः परियन्ति मूढाः
 
अन्धेनैव नीयमाना यथाऽन्धाः ॥" (मुं. 1.2.8.)
 
इत्यादिश्रुत्यर्थमुख्यलक्ष्यभूतास्सन्तः, गुरूपदिष्टे स्वानुगुणे कस्मिंश्चिन्मार्गे
प्रवृतानपि अधमभावनया परिकलयन्तः पर्यटन्ति । ते नूनं साधकानां
साधूनामनुकम्पाही एवेत्यत्र न संशयलेशोऽपि ।
 
[सर्वेषामपि साधनमार्गाणां वैदिकमार्गपोषकत्वम् ]
 
एवं च-
"यत् साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं सांख्यं च योगं च यः पश्यति स पश्यति" (गी, 4.4.)
 
इत्युक्तरीत्या तत्तदधिकारानुगुणैः श्रौतः तान्त्रिकैः मिश्रैरन्यैर्वा नानाविषैरुपायैः
एकमेव उचिंत लक्ष्यं अधिगन्तुं शक्यते इति, तन्मध्ये केषाञ्चित् पृथक्करणं
परित्यागः निन्दनं वा नैव सत्यानुगुणमिति वयं सुदृढं प्रतीमः । किञ्च सर्वेऽ-
प्येते साधनमार्गः साक्षात् परम्पराया वा अर्थतो वैदिकमार्गपोषका एवे-
त्यपि अवगन्तव्यम् ।
 
[तन्त्रमार्गे श्रीशङ्कराचार्यसंमतिमारणम् ]
 
अत एव वैदिकमतसंस्थापनार्थमेवावतीर्णैः परमवैदिकाग्रेसरैः ज्ञानवि-
ज्ञानपरिपूरितान्तरङ्गैः योगिवरेण्यैः श्रीशङ्करभगवत्पादैरपि तन्त्रमार्गमवलम्ब्येयं
सौन्दर्यलहरी आत्मन्यनुभूता, समुपदिष्टा च स्तोत्रमिषेण सकलजनसमुद्धरणाय ।
'स्वप्रयोजनाय नैवेदं विरचितं, अपि तु परार्थमेव' इत्यादयो वादा अप्यत्र वर्तन्ते;
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri