This page has not been fully proofread.

चर्चास्तव:
देवि ! स्तुतिव्यतिकरे कृतबुद्धयस्ते
वाचस्पतिप्रभृतयोऽपि जडीभवन्ति ।
तस्मान्निसर्गजडिमा कतमोऽहमत्र
स्तोत्रं तव त्रिपुरतापनपत्नि ! कर्तुम् ॥
मातस्तथापि भवर्ती भवतीव्रताप-
विच्छित्तये स्तवमहार्णवकर्णधारः ।
स्तोतुं भवानि ! स भवच्चरणारविन्द-
भक्तिग्रहः किमपि मां मुखरीकरोति ॥
 
सूते जगन्ति भवती भवती बिभर्ति
 
जागर्ति तत्क्षयकृते भवती भवानि ! ।
मोहं मिनत्ति भवती भवती रुणद्धि
 
लीलायित जयति चित्रमिदं भवत्याः ॥
 
यस्मिन्मनागपि नवाम्बुजपत्रगौरी
 
गौरीं प्रसादमधुरां दृशमादधासि ।
तस्मिन्निरन्तरमनङ्गशराव कीर्ण-
सीमन्तिनी नयनसन्ततयः पतन्ति ॥
 
पृथ्वीभुजोऽप्युदयनप्रभवस्य तस्य
 
विद्याधरप्रणतिचुम्बितपादपीठः ।
 
तच्चक्रवर्तिपदवीप्रणयस्स एषः
 
त्वत्पादपङ्कजरजःकणज: प्रसादः ॥
 
त्वत्पादपङ्कजरजप्रणिपातपूर्वैः
 
पुण्यैरनल्पमतिभिः कृतिभिः कवीन्द्रैः ।
 
क्षीरक्षपाकरदुकूलहिमावदाता
 
कैरप्यवापि भुवनत्रितयेऽपि कीर्तिः ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 
२९५