2023-02-16 08:26:54 by ambuda-bot
This page has not been fully proofread.
देवीस्तोत्रपञ्चके
२९४
माया कुण्डलिनी क्रिया मधुमती काली कलामालिनी
मातङ्गी विजया जया भगवती देवी शिवा शाम्भवी ।
शक्तिश्शङ्करवल्लभा त्रिनयना वाग्वादिनी भैरवी
ह्रींकारी त्रिपुरा परापरमयी माता कुमारीत्यसि ॥
आईपल्लवितैः परस्परयुतैर्द्वित्रिक्रमाद्यक्षरै
काद्यैः क्षान्तगतैस्स्वरादिभिरथ क्षान्तैश्च तैस्सस्वरैः ।
नामानि त्रिपुरे भवन्ति खलु यान्यत्यन्तगुह्यानि ते
तेभ्यो भैरवपत्ति ! विंशतिसहत्रेभ्यः परेभ्यो नमः ॥
बोद्धव्या निपुणं बुधैस्स्तुतिरियं कृत्वा मनस्तद्द्वतं
भारत्यास्त्रिपुरेत्यनन्यमनसा यत्राद्यवृत्ते स्फुटम् ।
एकद्वित्रिपदक्रमेण कथितस्तत्पादसङ्ख्याक्षरैः
मन्त्रोद्वार
विधिर्विशेष सहितस्सत्सस्प्रदायान्वितः ॥
सावद्यं निरवद्यमस्तु यदि वा किं वानया चिन्तया
नूनं स्तोत्रमिंद पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि ।
सञ्चिन्त्यापि लघुत्वमात्मनि दृढं सजायमानं हठात्
त्वद्भक्या मुखरीकृतेन रचितं यस्मान्मयापि ध्रुवम् ॥
इति लघुस्तवः प्रथमः
(२) चर्चास्तवः
सौन्दर्यविभ्रमभुवो मुवनाधिपत्य-
सङ्कल्पकल्पतरवस्त्रिपुरे ! जयन्ति ।
एते कवित्वकुमुदप्रकराववोध-
पूर्णेन्द वस्त्वयि जगज्जननि ! प्रणामाः ॥
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
१८
२०
२१