This page has not been fully proofread.

३९२
 
देवीस्तोत्रपञ्चके
 
एकैकं तव देवि ! बीजमनघं सव्यञ्जनाव्यञ्जनं
कूटस्थं यदि वा पृथक्क्रमगतं यद्धा स्थितं व्युत्क्रमात् ।
यं यं काममपेक्ष्य येन विधिना केनापि वा चिन्तितं
 
जप्तं वा सफलीकरोति सततं तं तं समस्तं नृणाम् ॥
बामे पुस्तकधारिणीमभयदां साक्षस्रजं दक्षिणे
भक्तभ्यो बरदानपेशलकरां कर्पूरकुन्दोज्वलाम् ।
उज्जृम्भाम्बुजपत्रकान्तनयनस्निग्धप्रभालोकिनीं
 
ये त्वामम्ब ! न शीलयन्ति मनसा तेषां कवित्वं कुतः ॥
ये त्वां पाण्डुरपुण्डरीकपटलस्पष्टाभिरामप्रभां
सिञ्चन्तीममृतद्रवैरिव शिरो ध्यायन्ति मूर्ध्नि स्थिताम् ।
अश्रान्ता विकटस्फुटाक्षरपदा निर्याति वक्ताम्वुजात्
 
तेषां भारति ! भारती सुरसरित्कल्लोललोलोर्मिवत् ॥
ये सिन्दूरपरागपिञ्जपिहितां त्वत्तेजसाऽऽद्यामिमां
उर्वी चापि विलीनयावकरसप्रस्तारमझामिव ।
पश्यन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वर-
क्लान्तस्रस्त कुरङ्गशाबकदृशो वश्या भवन्ति स्फुटम् ॥
चञ्चत्काञ्चनकुण्डलाङ्गदधरामाबद्धकाञ्चीसज
 
ये त्वां चेतसि तद्वते क्षणमपि ध्यायन्ति कृत्वा स्थिराम् ।
तेषां वेश्मसु विभ्रमादहरहः स्फारीभवन्त्यश्चिरं
माद्यत्कुञ्जरकर्णतालतरलाः स्थैर्य भजन्ते श्रियः ॥
आर्मट्या शशिखण्डमण्डितजटाजूटां नृमुण्डस्रजं
 
बन्धूकप्रसवारुणाम्बरधरां प्रेतासनाध्यासिनीम् ।
त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामापीन तुङ्गस्तनीं
मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसंवित्तये ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
 

 

 
{"
 
११