2023-02-16 08:26:54 by ambuda-bot
This page has not been fully proofread.
श्री देवीस्तोत्रपञ्चकम्
(१) लघुस्तुतिः
ऐन्द्रस्येव शरासनस्य दधती मध्येललाटं प्रभां
शौक्की कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः ।
एषासौ त्रिपुरा हृदि द्युतिरिवोष्णांशोत्सदाइ स्थितात्
छिन्द्यान्नस्सहसा पदैस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी ॥
या मात्रा त्रपुसीलतातनुलसत्तन्तु स्थितिस्पर्धिनी
वाम्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् ।
शक्तिः कुण्डलिनीति विश्वज ननव्यापारबद्धोद्यमाः
ज्ञात्वेत्थं न पुनस्पृशन्ति जननीगर्भेऽर्मकत्वं नराः ॥
दृष्ट्वा सम्भ्रमकारि वस्तु सहसा ऐऐ इति व्याहृतं
येनाकूतवशादपीह वरदे ! बिन्दुं विनाप्यक्षरम् ।
तस्यापि ध्रुवमेव देवि ! तरसा जाते तवानुग्रहे
वाचस्सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्ताम्बुजात् ॥
यन्नित्ये । तब कामराजमपरं मन्त्राक्षरं निष्कलं
तत्सारस्वतमित्यवैति विरलः कश्चिद्बुधश्चेद्भुवि ।
आख्यानं प्रतिपर्व सत्यतपसो यत्कीर्तयन्तो द्विजाः
प्रारम्भे प्रणवास्पदप्रणयितां नीत्वोच्चरन्ति स्फुटम् ॥
यत्सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभाव बुधैः
तातय तदहं नमामि मनसा त्वद्वीजमिन्दुप्रभम् ।
अस्त्यौर्वोऽपि सरस्वतीमनुगतो जाड्याम्बुविच्छित्तये
गोशब्दो गिरि वर्तते सुनियतं योगं विना सिद्धिदः ॥
२९१
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
16
१
२
AW
३
X