This page has not been fully proofread.

भावनोपनिषत्
 
अस्यां या अन्तश्चक्रभावनाः कथितास्ताः कादिनामकशक्तिमतरीत्यैव,
नतु कौलमतेन । अस्या उपनिषद ईदृशभावनाप्रतिपादकत्वमिति पद
वाफ्यशश्च यो वेद स एवाथर्वशिरोध्ययनवान् ; न तु शब्दमात्राध्ययनवान् ।
अध्ययनकरणकभावनाया अर्थावबोधभाव्यकत्वादिति भावः । 'योऽर्थज्ञ इत्सकलं
भद्रमश्नुते' इति श्रुत्यन्तरे सकलपदस्वारस्यात् शब्दमात्रपाठादपि
किञ्चिद्भद्रमस्त्येवेति च लभ्यत इति शिवम् ॥
 
३९०
 
इति भावनोपनिषदः अथर्वणशिरसोऽतनोद्भाष्यम् ।
भास्कररायो विदुषां तुष्टयै जीवन्मुमुक्षूणाम् ॥
इति सभाष्या भावनोपनिषत् सम्पूर्णा
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri