This page has not been fully proofread.

भाष्यसहिता
 
२८९
 
चत्वारिंशदधिकचतुर्दशशतश्वासरूपा
 
भवन्ति । तास्तथा विभावयेदित्यर्थः ।
एतत्पक्षद्वयभावना आवरणपूजातः कार्येति केचित् । बाह्यपूजायां तत्रैव स्थान-
क्लृप्तेः सर्वविलापोत्तरं भावनान्तरानवकाशादिति तदाशयः । वस्तुतस्तु
स्वात्ममात्र परत्वेन मनसस्स्तम्भे सति श्वासस्तम्भस्यावश्यंभावाद्देवताया रश्मि-
विलापनस्य विसर्जनकाल एवोचितत्वान्मनःपवनोभयस्तम्भस्यैवोत्तरत्र काल-
विधानाये हैवावसर सद्भावा निरर्थकवाक्यापकर्षस्यायुक्तत्वाचे
व नित्या भावना
युक्तेति द्रष्टव्यम् ॥
 
एवमान्तर बाह्यनिखिल प्रपञ्च विलापनपूर्वकस्वात्म मात्रावशेष भावनायाः
अहर्निशं धारावाहिकतावश्यकतां ध्वनयन् तदशक्तेषूत्तममध्यमाघमसाधक-
भेदेन त्रिविधं कालनियममाह-
एवं मुहूर्तत्रितयं मुहूर्तद्वितयं मुहूर्तमात्रं वा
भावनापरी जीवन्मुक्तो भवति स एव शिव-
योगीति गद्यते ॥ ३४ ॥
 
एवमित्यनेन अव्यवहितपूर्वोक्ता स्वात्ममात्रविषयिणी श्वासस्तम्भसहिता
निर्विकल्पकवृत्तिरुच्यते । तदवभिन्नभावनायां परः तत्रैवासक्तः भावनेतरख्या-
पारशून्यः धारावाहिकभावनावानिति यावत् । स जीवन्मुक्तिरूपफलभाकू
अचिरादेव जायते । जैगीषव्यादयश्शिवयोगित्वेन ये व्यवद्दियन्ते तेऽप्ये-
तादृशभावनाशलित्वादेवेति तत्पद प्रवृत्तिनिमित्तमीदृशभावनेत्यर्थः ॥
 
कादिमतेनान्तश्चक्रभावनाः प्रतिपादिताः ॥ ३५ ॥
 
य एवं वेद सोऽथर्वशिरोऽधीते ॥ ३६ ॥
 
वेदत्रयं बहिरङ्गकर्मप्रतिपादकम् । अथर्वणवेदस्तु अन्तरङ्गकर्माण्येव प्रचुरं
प्रतिपादयति । तस्यापि शिरोरूपेयमुपनिषतु ततोऽप्यन्तरङ्गतमां भावनां वक्ति ॥
 
19
 
CC-0. Jangamwadi -Math Collection. Digitized by eGangotri