This page has not been fully proofread.

भावनोपनिषत्
 
२८८
 
तेषु मेर्वादिव्योमान्तेषु क्रमेण ललितादिचित्रान्ताः नित्याः युगप्रथमवर्षे तिष्ठन्ति ।
द्वितीये तु वर्षे जम्बूद्वीपादिमेर्वन्तेषु च गच्छन्ति । तृतीये तु लवणसागरादि-
जम्बूद्वीपान्तेष्वित्यादिरीत्या षोडशवषे परव्योमादिमधुरसमुद्रान्तदेशेषु ललिता-
द्याष्षोडश नित्यास्तिष्ठन्ति । एवं षोडशभिष्षोडशभिवर्षैर्नित्यानामेकैका
परिवृत्तिः । ईदृशदेशरूपशक्रस्याप्यन्तरेव श्रीचक्रं न बहिः । तृतीयो यथा-
भूगोलस्योपर्यधश्च वलयिताश्चन्द्रवुधशुक्र र विभौमगुरुश निनक्षत्रकक्षा अष्टौ
तत्तदन्तरालान्यष्टौ इति षोडश देशाः कालचक्ररूपास्सन्ति । तेषु स्थानेषु
देशपरिवृत्तिविपरीतक्रमतप्षोडश नित्याः परिवर्तन्ते । अस्यापि चक्रस्यान्तरेव
श्रीचक्रं न बहिः । अस्य त्रिविधस्यापि चक्रस्य पारमार्थिकरूपं नित्याचक्रमेव ।
ब्रह्मातिरिक्तस्य सर्वस्य देशकालावच्छिन्नतदभेदात्सर्वोऽपि प्रपञ्चो नित्यारूप
एव । तासां स्वात्माभेदभावनैव ह्यत्र विधीयते-
अथ षोडशनित्यानां स्वात्मत्वे वासनां शृणु !
यया तन्मयतासिद्धिः प्रत्यक्षा भवति ध्रुवम् ॥
इत्युपक्रम्य 'गुरुराद्या भवेच्छक्तिः' इत्यादिना ललितायाः सङ्गोपाङ्गायाः
स्वात्मत्ववासनामुक्ता, अन्ते—
 
तिथिरूपेण कालस्य परिणामावलोकनम् ।
 
नित्याः पञ्चदशान्यास्स्युः इति प्रोक्तास्तु वासनाः ॥
इत्युपसंहारस्य तन्त्रराजे दर्शनात् । स च प्रपञ्चोपसंहारफलिंकैव
तिथिरूपेणेति त्रिविधचक्रोपलक्षणद्वारा प्रपञ्चपरम् । प्रपञ्चात्मकतया काल
ऐव परिणतोऽस्तीति विभावनमेवान्यासां पञ्चदशनित्यानां विभावनमित्यर्थः ।
तासां त्रिपुरसुन्दर्यभेदस्य क्लृप्तत्वातदनुक्तिः भावनाविषयपदेनोक्तानां वक्ष्य-
माणानां क्रीडीकारेण पूर्ववाक्य एवाभेदभावनाया विहितत्वाद्वा । वस्तुतस्तु
सर्वा अपि तिथयः पट्छता विकेकविंशतिसहस्रसङ्ख्याश्वासात्मककालरूपाः ।
तत्समष्टिविग्रहवती ललिता । अन्याः पञ्चदश व्यष्टिविशेषेण प्रत्येकं
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri