This page has not been fully proofread.

भाष्यसहिता
 
२८७
 
निगरणेन निर्विकल्पतुरीयाखण्ड विषयतामापाद्य तस्या अपि त्यागेन स्वात्म-
मात्रावशेषः तर्पणवासना । यद्यपि—
 
ताम्बूलमर्चना स्तोत्रं तर्पणं च नमस्क्रिया ।
 
इति परिगणितमुपचारान्तरमेव तर्पणं, तथापि तदिहावरणदेवोपचाररूप-
त्वाहिस जनैकदेश एव स्वेतरभावननिरोधकत्वात्तर्पणतापि ।
एषामन्योन्यसंभेदभावनं तर्पणं स्मृतम् ।
 
इति तन्त्रराजे एषामित्यस्य न्यासजपहोमानामिति संकुचितं निधिकृतो
व्याख्यानं श्रुतिविरोधादनादेयम् ॥
 
एतावता प्रबन्धेन देहरूपश्रीचक्रस्य स्वात्ममात्रावशेषतामुक्त्वा तेन
सह बहिरङ्गसम्बन्धशालिनः प्रपञ्चस्यापि स्वात्मनि विलापनमाह-
पञ्चदशतिथिरूपेण कालस्य परिणामावलो-
कनं पञ्चदश नित्याः ॥ ३३ ॥
 
स च प्रपञ्चस्त्रिविधः – कालरूपो देशरूप उभयरूपश्चति । तत्राद्यो
• इत्यादि-
यथा – चन्द्रमण्डलनिष्ठसादाख्यकलातिरिक्त: 'दशी दृष्टा दर्शता'
श्रुतिपरिगणिताः पञ्चदश कलास्सन्ति तावत् प्रतिपदादिपूर्णिमान्ततिथिरूपास्ता
एव च कामेश्वर्यादिचित्रान्तनित्याभिरभिन्नाः । सादैव तु ललिता। ईदृशस्य
च नित्यं परिवर्तमानस्य कालरूपतिथिचक्रस्यान्तरेव श्रीचक्रं तिष्ठति, न
बहिः । द्वितीयो यथा- भूगोलस्योत्तरभागे स्थितो मेरुः तदक्षिणतो जम्बूप्लक्ष-
शाल्मासिकुश क्रौञ्चशा कपुष्कराख्यास्सप्त द्वीपाः । तेषामन्तरालेषु भूगोलस्य
षट् समुद्राः, पुष्कराह-
वलयाकारलवणेक्षुसुरासर्पिर्मधुक्षीराख्याः
हिर्मधुरोदस्समुद्रस्सप्तमः । ततोऽपि दक्षिणतः परं व्योमेत्येवं षोडश देवताः ।
 
1 पसंहार. * तैं ब्रा. ३-१०-१०
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri