This page has not been fully proofread.

भावनोपनिषत्
 
२८६
 
स्थितिरासनं' इत्यादीनि बांक्यानि मूलेऽपि क्वचिद्दृश्यन्ते । तथापि तेषु कति-
पयानामुपचाराणां प्रकृतभावनानुगुण्याभावाद्वहुषु
तदुपबृंहणादर्शनाच्च तान्यस्माभिरिह नादृतानि ॥
 
पुस्तकेष्वनुलम्मा उत्रेषु
पुस्तकेष्वनुलम्भात्तन्त्रेषु
 
अहं त्वमस्ति नास्ति कर्तव्यम कर्तव्यमुपा-
सितव्यमिति विकल्पानामात्मनि विलापनं होमः ॥ ३१ ॥
 
सन्ति श्रीचक्रे पूर्वभावितेभ्यो अन्या अप्यनन्तारशक्तयः –
अन्यास्तु शक्तयश्चक्रगामिन्यो यास्समन्ततः ।
तास्तु विश्वविकल्पानां हेतवः समुदीरिताः ॥
 
-
 
इत्यादिना तन्त्रे वर्णिताः । तासां त्रिपुरसुन्दर्यभेदभावनाफलिकां होमवासना-
माह — अहमित्यादिना । तेन नैवेद्याङ्गहोमस्य उपचाराद्वहिः पार्थक्येन कथनस्य
नासाङ्गत्यम् । तथा च विसर्जनात्मकोपचारपराण्येव 'अहम्' इत्यारभ्य त्रीणि
वाक्यानीति पर्यवसन्नम् । युष्मदस्म प्रत्यययोरहं त्वमित्यनेन ग्रहणम् ।
'अस्ति नास्ति' इत्यनेन लौकिकयोर्विधिनिषेधयोः, 'कर्तव्यमकर्तव्यं इत्यनेन
वैदिकयोः कर्मकाण्डस्थयोः, 'उपासितव्यम्' इत्यनेन वेदशिरस्थविधेर्ग्रहणम् ।
'नोपासीत' इति निषेधस्योपनिषत्स्वदर्शनादेव तदनुल्लेखः । एतत्सप्तकेन
वृत्तिसामग्रघुपलक्ष्यते । ईदृशविकल्पानामप्यात्मस्वरूपत्वमात्माविशेषविभावन
मेव होमभावना ॥
 
होमो विश्वविकल्पानां स्वात्मन्यस्तमयो दृढम् ।
 
हृत्युपबृंहणात् । विकल्पानां निर्व्युत्थानविलापनपूर्वकं तद्धेतुशक्तिकदम्बस्य
 
देवतायां विलीनतां भावयेदिति फलितार्थः ॥
 
भावना विषयाणाममेदभावना तर्पणम् ॥ ३२ ॥
श्रीगुर्वादिविशेषहोमान्ता यावन्तः पदार्थ इह भाविता ये च भावयिष्यन्ते ।
तेषां सर्वेषामपि परस्पराभेदभावनेन विषयतावैलक्षण्यप्रयुक्त भेदभावनस्यापि ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri