This page has not been fully proofread.

इतीमां नीतिमनुसृत्यैव परमकारुणिकैः श्रौतमार्गः तन्त्रमार्गः मिश्रमार्गः
इत्यादयः नानाविधाः मार्गाः परिकल्पिताः
 
[अधिकारभेदेन सर्वेषामपि मार्गाणामादरणीयता]
 
xxxi
 
अत एव -
 
"चतुर्वेदेषु परं श्रेयोऽलभमानः शाण्डिल्यः पञ्चरात्रं आश्रितवान् ।"
इत्यादिकं,
 
"त्रैगुण्यविषयाः वेदाः निस्त्रैगुण्यो भवार्जुन ।" (गीता. 2. 45.)
इत्यादिकं च न वेदनिन्दारूपं मन्यन्ते । अपि तु अधिकारभेदनिरूपणात्मक-
मेव ।
 
शास्त्रकाराश्च -
 
अत एव च-
[ तन्त्रमार्गदूषणानौचित्यम् ]
 
"नदीनां च यथा गङ्गा पर्वतानां हिमालयः ।
तथा समस्तशास्त्राणां तन्त्रशास्त्रमनुत्तमम् ॥ "
इति तन्त्रशास्त्रस्योत्तमतां बोधयन्ति ।
 
" श्रुतिपथगलितानां तन्त्रमार्गे निवेशः"
 
इत्यादिः केवलं उभिहृदयानां अनधिगतसर्वभूताहितानुशासनपरमर्षि-
हृदयानां विप्रलाप एवेति निरणयन् ।
 
य एवं ज्ञानिभिः सयुक्ति कल्पितेष्वेव नानाविधेषु श्रेयोमार्गेषु
मिन्नाधिकारिकत्वमपरिजानन्तः, त्याज्यमपि स्वोत्कर्षभावनात्मकमहङ्कारं
अपरित्यजन्तः, स्वहिताय स्वयमपि किञ्चिदकुर्वन्तः,
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri