2023-02-16 08:26:53 by ambuda-bot
This page has not been fully proofread.
२८४
अनन्यचित्तत्वेनेत्यभेदे
चोपबृंहित तन्त्रराजे-
भावनोपनिषत्
तृतीया । चकारो मुद्रासङ्ग्रहार्थः । तथा
सिद्धिस्त्वनन्यचित्तत्वं मुद्रा वैभवभावनम् । इति ॥
तत्तदावरणदेवानां स्वशरीरावयव
विशेषाभेदेन भावितानामपि स्वात्मा-
नन्यत्वेन चित्त भावनमेव तत्तदावरणस्था सिद्धिः । 'एता मत्तो न मिद्यन्ते'
इति बुद्धिरेव सिद्धिरिति यावत् । सिद्धिपदमुपास्तिफलसिद्धिपरमिति केचित् ।
तत्पक्षे अव्यवहितपूर्वोक्तभावनायां विषयतावैलक्षण्यप्रयुक्तदभेदस्य अनिरासेनो-
पासना फलतीत्यर्थः । वस्तुतो वक्ष्यमाणतर्पणे विषयवैलक्षण्यनिरासादयं
ग्रन्थस्सिद्ध्यादिपर एव । तासामेव वैभव विभुत्वमपरिच्छिन्नता । तद्भावनमेव
तत्तदावरणस्थमुद्राभावनमित्यर्थः ।
भावनायाः क्रिया उपचारा: ॥ ३० ॥
उक्तायाः स्वात्मामेदेन ललिताभावनायाः क्रियाः पुनःपुनःकरणानि
धारावाहिन्यो भावना इति यावत् । उपचारसमर्पणस्य भेदघटितत्वेन यथा-
स्थितगन्धादिभावनापक्षे पूर्वविभावितस्य भेदस्य प्रमोषापत्तेस्तदविरोधिनीरेवोप-
चारभावनाः स्वेच्छया कल्पयेदिति भावः । तदुक्तं तन्त्रराजे-
उपचारश्चलत्वेऽपि तन्मयत्वाप्रमत्तता ॥ इति ॥
चलत्वं चाञ्चल्यं अभेदभावनास्थैर्याभावः, तादृशस्वभावशीलत्वेऽपि ब्रह्ममयत्वांशे
प्रमादामावोऽतीव सावधानता यथा स्यात्तथा विभावना एवोपचार इति
तदर्थः । यद्यपि चलशब्दोश्वश्यंभाविप्रमादस्वप्नाद्यवस्थापरत्वेन मनोरमायां
व्याख्यातः, तथाप्यपिशब्दस्वारस्येन जाग्रत्काले सावधानतामांत्रावश्यकता-
परै सोक्तिरिति मन्तव्यम् । तादृशोऽप्रमादश्च योगवासिष्ठोक्तशिवपूजाया
द्रष्टव्यः । आत्मनो विषयोपभोगजनितानन्दस्य सर्वस्य स्वात्माभेदेनानुसन्धान
CC-0. Jangamwadi Math Collection. Digitized by eGangotri