This page has not been fully proofread.

भाष्यसहिता
 
२८३
 
एतस्य विमर्शो
 
सर्वपदेन कामेश्वरो ललिता स्वयं चेति त्रितयम् ।
नुसन्धानमेव देवीनिष्ठं लौहित्यं, सर्वस्य स्वात्मन्यनुरागात् रागलौहित्ययोर-
मेदात् । उक्तं च तन्त्रराजे-
स्वात्मैव देवता प्रोक्ता ललिता विश्वविग्रहा ।
 
लौहित्यं तद्विमर्शः स्यादुपास्तिरिति भावना ॥ इति ॥
अत्रेदं गुरुमुखैकवेद्यं रहस्यम्-निरुपाधिकपदेन केवलत्वस्य सदानन्द-
पूर्णपदेन धर्मविशिष्टत्वस्य च कथनेन विशिष्ट केवलयोरवयवावयविनोरिवायुत-
सिद्धयोस्तादात्म्यरूप एव सम्बन्धः न संयोगांदिरूपो भेदघटितः । स च
त्रिपुरसुन्दरीकामेश्वर योर्विग्रहात्मकस्थूलरूपद्वयसम्बधः कामेश्वराङ्कनिलयत्व-
पदेन व्यवह्वियमार्णाश्शिवशक्तिसामरस्यात्मको लाक्षाद्रवपटयोरिव संयोगविशेष
एवेति वासना । एवमुपाधिविनिर्मुक्तस्यैव शुद्धत्वेन स्फटिके वर्णान्तरोपरागा-
भावदशायमेव अविज्यमानत्वस्य शुकत्वस्य शुद्धस्फटिकाभेद एव पर्यवसि-
तत्वेन कामेश्वरे शुक्लचरणत्ववासना । अनुसन्धानस्याहमात्मकमानसवृत्तिविशेष-
मात्ररूपत्वेन तद्विषयतायाः, विषयतासम्बन्धेन वृत्तेर्वा वृत्तिसम्बन्धेन मनस एव
वा रागामेदेन पर्यवसानात्तद्विशिष्टायां रक्तचरणत्ववासना । सर्वस्येत्यनेन
विषयताया विशेष्यविशेषणतत्सम्बन्धेषु व्याप्तिकथनाञ्चरणप्रभयोस्समरसभाव-
सम्बन्धरूपमिश्रचरणस्यापि बासना सूचिता भवतीति दिक् । तन्त्रश्लोके
'गुरुराद्या भवेच्छक्तिः' इत्यादिनोकानां वासनामामनुसन्धानमुपास्तिपदवाच्य-
मिति कथनार्थश्चतुर्थचरणः । अथ वा – उपास्तेरपि त्रीणि रूपाणि ;
विग्रहादिपूजनं स्थूलरूपं, मानसो जपस्सूक्ष्मं, एषा भावना परं रूपमिति ।
अनन्यचिचत्वेन च सिद्धिः ॥ २९ ॥
 
-
 
प्रत्यावरणमेकैका सिद्धिरेकैका मुद्रा च बहियगे पूज्यते । तहासना-
विधानार्थमियं श्रुतिः ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri