This page has not been fully proofread.

२८२
 
स्मृतः'
 
भावनोपनिषत्
 
निरुपाधिका संविदेव कामेश्वरः ॥ २६ ॥
 
उपाधिरहित शुद्धं चैतन्यमेव बिन्दुरूपः कामेश्वरः; 'संवित्कामेश्वर:
 

 
इत्युपबृह्मणात्
 
सदानन्दपूर्णा स्वात्मैव परदेवता ललिता ॥ २७ ॥
 
संविदो निरुपाधिकत्वविशेषणबलात्तदङ्कनिलयायाः
 
परदेवतायाः किञ्चि
 
दुपाधिविशिष्टत्वमात्रेण ततो भिन्नतयोपास्यत्वम् । तादृशश्च स्वात्मैव ।
स्वाभिन्न एव परदेवता उपास्तिज्ञरूपानविशेषनिरूपितमुख्यविशेष्यताशालिनी
तामेवासाधारणनाम्ना निदिशति ललितेति । अत्र सदानन्दपूर्णत्युपाषि.
कथनम् । तेनान्तःकरणावच्छिन्नस्य न ललितात्वं, तस्योपासककोटौ प्रवेशात् ।
अत एव स्वात्मत्युक्त स्वस्योपासकस्यात्माऽन्तर्यामीति तदर्थत्वात् । इत्थं च
एक एवात्माऽन्तःकरणोपाधिकस्सन्नुप ।सको भवति । सत्त्वचित्त्वानन्दत्वरूप -
धर्मत्रयविशिष्टवेषेण ललिता भवत्युपास्या । धर्मत्रयविनिर्मुक्तं धर्मिमात्रंमुपास्य-
देवताधारभूतः कामेश्वरो भवतीति विवेकः । तदुक्तं रत्नत्रयपरीक्षायाम्-
नित्यं निर्दोषगन्धं निरतिशयमुखं ब्रह्मचैतन्यमेकं
धर्मो धर्मीति मेदस्त्रितयमिति पृथग्भूय मायावशेन ।
धर्मस्तत्रानुभूतिः सकलविषयिणी सर्वकार्यानुकूला
शक्तिः स्वेच्छादिरूपा भवति गुणगणस्याश्रयस्त्वेक एव ॥
कर्तृत्वं तत्र धर्मी कलयति जगतां पञ्चसृष्ट्यादिकृत्ये
 
धर्मः पुंरूपमाप्त्वा सकलजगदुपादानभावं बिभर्ति ।
स्त्रीरूपं प्राप्य दिव्या भवति च महिषी स्वाश्रयस्यादिकर्तुः
प्रोक्तौ धर्मप्रमेदाबपि निगमविदां धर्मिबद्ब्रह्मकोटी ॥ इति ॥
लौहित्यमेतस्य सर्वस्य विमर्शः ॥ २८ ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri