This page has not been fully proofread.

भाष्यसहिता
 
२८१
 
तत्त्वविशेषः न त्विच्छासामान्यम् । तेनारुणावाग्देवतावसानया न पौनरुक्तम् ।
बन्धकत्वेन साम्यात्तस्य पाशाभेदः । द्वेषः क्रोधः ; तस्य द्वेण्यान्निवारकत्वादक-
शता । उक्तं च रहस्यनामसाहसे-
रागस्वरूपपाशाढ्या क्रोधाकाराडशोज्ज्वला ।
मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका ॥ इति ॥
 
तन्त्रराजेऽपि —
 
• तन्मात्राः पुष्पसायकाः ॥
मनो भवेदिक्षुधनुः पाशो राग उदीरितः ।
द्वेषः स्यादङ्कुशः प्रोक्तः क्रमेण वरवर्णिनि ॥ इति ॥
 
.......
 
अव्यक्तमहदहङ्काराः कामेश्वरीवज्रेश्वरीभग-
मालिन्योऽन्तस्त्रिकोणगा देवताः ॥ २५ ॥
 
अत्र महदव्यक्तशब्दौ बुद्धिप्रकृतितत्त्वपरौ । अव्यक्तादिपदनये
समाहारद्वन्द्वः । परं तु न यथासङ्ख्यं त्रितययोरभेदः ; अपि तु 'अव्यक्ता-
हङ्कृतिमहदाकाराः प्रतिलोमतः कामेश्वर्यादिदेव्यः स्युः' इति तन्त्रोपबृंहणानु-
रोधेन व्युत्क्रमेण वासनाः ॥
 
अत्र मुख्य विशेष्या ललिता । विशेष्यतावच्छेदकः कामेश्वरः ।
अऩयोश्च रक्तचरणशुक्लचरणरूपते रक्तवशुक्लवर्णी, अनयोरेव संबन्धविशेषः ।
तस्यैव स्थूलसूक्ष्म मिश्रचरणत्वं चेति त्रिविधं रूपम् । प्रकारत्वेन विषय
उपासकः । तस्य मुख्यविशेष्येण सह संबन्धः प्रकारतावच्छेदकश्चेत्येकादश
पदार्थान् त्रिभिर्वाक्यैर्विवेचयति निरुपाधिकेत्यादिभिः-
CC-0. Jangamwadi Math Collection. Digitized by eGangotri