This page has not been fully proofread.

भावनोपनिषत्
 
वह्नयो दश संप्रोक्ताः सर्वज्ञाद्याश्च शक्तयः ॥
इत्यत्र 'सम्प्रोक्ताः' इत्यस्य श्रुतौ कथिता रेचकादय इत्येवार्थः ।
केचित्प्रोक्तपदं वक्ष्यमाणार्थकं मन्यन्ते । तस्मिन्नेव पटले-
अग्निर्वह्निः शुचिस्तेजः प्रभा दावः शिखी युतिः ।
 
-
 
दाहो ग्रासः
 

 
इति नामदशकस्योत्तरत्र कथनात् । परन्तु प्रयोगे मन्त्रघटकता श्रौतनाम्ना -
मेवोचिता, * विधिशब्दस्य मन्त्रत्वे" इति दाशमिकाधिकरणन्यायात् ॥
शीतोष्णसुखदुःखेच्छाः सच्चरजस्तमोगुणाः
वशिन्यादिशक्तयोऽष्टौ ॥ २० ॥
 
शीतोष्णे सुखदुःखे चेति द्वन्द्वद्वयम्, इच्छेका, सत्त्वादित्रयमित्यष्टौ
वाग्देवताष्टकरूपाः । तन्त्रराजेऽपि
 
२८०
 
.....
 
-
 
शीतोष्णसुखदुःखेच्छागुणाः प्रोक्ताः क्रमेण वै ।
बशिन्याद्याः शक्तयस्स्युः .... ॥ इति ॥ ॥
 
शब्दादितन्मात्राः पञ्चपुष्पबाणा: ॥ २१ ॥
 
मन इक्षुधनुः ॥ २२ ॥
रागः पाशः ॥ २३ ॥
 
द्वेषोऽङ्कुशः ॥ २४ ॥
 
शब्दस्पर्शरूपरसगन्धास्तन्मात्रपदेनोच्यन्ते । ते च मुखे अभिमुखा:,
अन्ते परुषाः, अत एव बाणाभिन्नाः । अविकृतं तु मनः पुण्ड्रेक्षुचापरूपम्,
विषयपरामर्शरूपाणामिन्द्रियाणां प्रेरकत्वात् ।
रागः प्रीतिः षटूत्रिंशदन्तर्गता
 
* नैमिनिसू. १०-४-२२
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri