This page has not been fully proofread.

भाष्यसहिता
 
एतद्वायुसंसर्गकोपाधिभेदेन रेचकः पाचकः
शोपको दाहकः प्लावकः इति प्राणमुख्यत्वेन
पञ्चधा जठराग्निर्भवति ॥ १७ ॥
 
क्षारक उद्गारकः क्षोभको ज़म्भको मोहक
इति नागप्राधान्येन पञ्चविधास्ते मनुष्याणां
देहगाः भक्ष्यभोज्यचोष्यलेहा पेयात्मकं पञ्चविध
मन्त्र पाचयन्ति ॥ १८ ॥
 
एता दश वह्निकलाः सर्वज्ञाद्या अन्तर्दशारगा
देवताः ॥ १९ ॥
 
प्राणाद्याः पञ्च महावायवः नागाद्याः उपवायवः प्रञ्चेत्येवं दशापि
सर्वार्थसाधकचक्रस्थदेवतामिरमिन्नाः । तन्त्राराजेऽपि –
 
नाड्यश्चतुर्दश प्रोक्ताः क्षोभिण्याद्यास्तु शक्तयः ।
वायवो दश संप्रोक्ताः सर्वसिद्धयादिशक्तयः ॥ इति ॥
 
२७९
 
एकस्यैवौदर्याभेः प्राणादिदशवायुंसबन्धेनौपाधिकत्वं वाक्यद्वयेन
विवृतम् । तृतीयवाक्येन पाचकस्य कार्यम् । चतुर्थवाक्येन सर्वार्थसाधकचक्र-
स्थदेवताभिरभेदः उक्तः । धातुसप्तके दोषत्रये च विद्यमानत्वाद्दशधात्वममेरन्ये
मन्यन्ते । तन्त्रराजे तु
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri