This page has not been fully proofread.

२७८
 
भवनोपनिषत्
 
वचनादानगमनविसर्गानन्दहानोपादानोपेक्षा-
ख्यबुद्धयोऽनङ्गकुसुमाद्यष्टौ ॥ १४ ॥
 
कर्मेन्द्रियाणां वचनादयो विषयाः पञ्च । ह्वानं त्यागः । उपादानं
ग्रहणम् । उपेक्षा औदासीन्यम् । ईदृशबुद्धित्रयं चेत्यष्टौ । इदमेव बुद्धित्रयं
दोषपदेनोक्तं तन्त्ररांजे-
भूतेन्द्रियमनांस्येव क्रमान्नित्याः कलाः पुनः ।
कर्मेन्द्रियार्थदोषश्च ज्ञेयाः स्युः शक्तयोऽष्टधा ॥
 
इति । वातपित्थकफा दोषा इत्यन्ये ।
 
अलम्बुसा कुहूर्विश्वोदरा वारणा हस्तिजिह्वा यशोवती
पयस्खिनी गान्धारी पूपा शङ्खिनी सरस्वती इडा पिङ्गला
सुषुम्ना चेति चतुर्दश नाड्यः सर्वसंक्षोभिण्यादिचतुर्दश
 
शक्तयः ॥ १५ ॥
 
नाथनवकव्याख्यानावसरे नाडीनां स्वरूपं प्राग्विवृत, तदभिना
मंन्वश्रदेवताः । एतासां नाडीनां पूर्वोक्तपृथिव्यादिषोडशकस्य च व्युत्क्रमो
भूयानेव निधिग्रन्थे दृश्यते । श्रौतक्रमबोधकप्रत्यक्षश्रुतिमन्तरेणाऽनत्यपाठक
 
मबाघस्यायोगात्तत्र मूलं चिन्त्यम् ॥
 
प्राणापानव्यानोदानसमाननागकूर्मकुकरदेवदत्तधनञ्जया'
दश वायवस्सर्वसिद्धिप्रदादिबहिर्दशारदेवताः ॥ १६ ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri