2023-02-16 08:26:51 by ambuda-bot
This page has not been fully proofread.
भाष्यसहिता
श्रीचक्रे सिद्धयः प्रोक्ता रसा नियतिसंयुताः ।
ऊर्मयः पुण्यपापे च ब्राह्मयाद्या मातरः स्मृताः ॥
इत्युक्तम्, तत्राप्यूर्मिशब्दः कामाद्यरिषड्वर्गपर एव; पुराणेषु कामादेरप्यूर्मि-
पदेन क्वचिद्व्यबहारदर्शनात् । तेन क्षुधापिपासाशोकमोहजरामरणपरत्वेन परेषां
व्याख्यानं प्रत्यक्षश्रुतिविरोधादनादेयम् ॥
आधारनवकं मुद्राशक्तयः ॥ १२ ॥
पृथिव्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वाघ्राण-
वाक्पाद पाणिपायूपस्थानि मनोविकारः कामा-
कर्षिण्यादिपोड शशक्तयः ॥ १३ ॥
२७७
मूलाधारादिषट्कमूर्ध्वाधः सहस्रदलकमले द्वे लम्बिकाग्रमेकमिति नवा-
धाराः । तेषामेव समष्टिरेकेति दश । एतैः संक्षोभिण्यादित्रिखण्डान्तमुद्राभि-
मानिशक्तिदशकस्याभेदाः । तन्त्रान्तरेषु तृतीयरेखादेवताभावात्तदनुयायि-
बिन्दुसूत्रोक्तानां आवरणदेवतास्थानानामिह (न) ग्रहणम् । अन्ये तु योगिनी-
हृदयस्यापि कादिमतानुयायित्वात्तत्र मुद्रादेवतानां शरीरावयवेषु अवस्थानकथ-
नातान्येव स्थानानि ग्राह्याणि । एतदुपनिषदुक्तदेवता विभावनस्य पूजान्यासोभ-
यरूपतायाः निधिकारादिसाम्प्रदायिकसम्सतत्वात् । तेन कतिपये न्यासधर्मा-
स्तन्त्रोक्ता इह योजनीया इत्याहुः । तेच 'चतुरश्राद्यरेखायै सम इत्यादितो
न्यसेत्' इत्यादयः प्रयोगविधौ उपसंहरिष्यन्ते । प्रत्यावरणमेकैकस्याः सिद्धे-
मुद्रायाश्च विभावनमग्रे विधास्यते । तत्तच्चक्रेश्वरीविभावनमप्यन्यत्रोक्तमुप-
संहार्यम्। पञ्च भूतानि एकादशेन्द्रियाणि च सर्वाशा परिपूरक चक्रस्थदेवता भिन्नाः ।
अत्र विकारशब्दः षोडशसङ्ख्यापरः । मनोविकार इत्येकं पदं वा–विकृतं मन
इत्यर्थः ; 'कृदभिहितो भावो द्रव्यवत्प्रकाशते' इति व्युत्पत्तेः । तेन मन
इक्षुधनुः' इत्यनेन न पौनरुक्त्यम् ॥
CC-0. Jangamwadi Math Collection. Digitized by eGangotri