This page has not been fully proofread.

भावनोपनिषत्
 
ज्ञानशब्दो घटादिज्ञानपरः, अर्ध्यशब्दः पूजासामग्री परः, ज्ञेय ( बहिः)
शब्दो
बाह्यविषयमात्रपरः । याबानिदंताविषयः स सर्वोऽपि हविष्टेन श्रुतौ निर्दिष्टः;
नैवेद्यमिति यावत् । अत एवार्थ्यशब्दस्तदितरविशेषार्थ्यपरतया संकोच्यः ।
पूज्या देवता तु चिद्रूपा प्रसिद्धत्वान्नोक्ता । अहन्ताविषयो ज्ञाता पूजकः
प्रकृतत्वाद्विशिष्य श्रुतावनुक्तोऽपि तन्त्रे निर्दिष्टः । स्वात्म
चैतन्याद्भेदेन
प्रतीयमानानां ज्ञातृज्ञानज्ञेयानां भेदकनामरूपाननुसन्धानपूर्वकं चिन्मात्ररूप-
तया विभावनमिह विधीयते । तन्त्रे भावे ल्युडन्तपूजनपदार्थस्तु त्रितयामेद-
मात्रं, न त्वमेदविभावनम् । लोके हि विशेषार्थ्यजलबिन्दैवेद्यस्य स्वाम-
नश्च देवतायां समर्पणरूपसंबन्ध एव पूजा । तद्वत्प्रकृतेऽपि त्रयाणां चिता सह
तादात्म्यस्यैव तथात्वमुचितम् । तदनुकूला कृतिर्हि विभावनमत्राभिघीयते ।
विभावनस्यैव पूजनपदार्थत्वे विभावनपूजनयोरमेदेन विभावनान्तरमापद्येत ।
तेन करणेल्युडन्तः श्रौतः पूजनशब्दः पूजानुकूलकृतिपर इति द्योतना-
यैकीकरणमित्युपबृंहितम् ॥
 
२७६
 
नियतिः शृङ्गारादयो रसा अणिमादयः ।
कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमय्यो
 
ब्राह्मचाद्यष्टशक्तयः ॥ १९ ॥
 
नियतिः प्रारब्धमेकम् । शृङ्गारादयो नव । आदिपदाद्भयानकरौद्रबी-
भत्सहास्यवीरकरुणाद्भुतशान्तपरिग्रहः । एतेषां दशानां क्रमेणाणिमादिसिद्धि-
दशकाभेदः । अत्र क्रमे मूलं बिन्दुसूत्रतो ज्ञेयं, शृङ्गारादीत्यादिपदेन गृही-
तानां क्रमस्याज्ञातत्वेनान्यतो ग्रहणस्योचितत्वात् । कामाकर्षिण्यादिवक्ष्यमाण-
• वासनानां तु पाठक्रमेण निर्णयसम्भवान्निधिकारोक्तव्युत्क्रमो यावन्मूलदर्शनं
न विश्वासनीयः । अत्र मयट्प्रत्ययो ब्रह्ममयं जगदित्यादाविबाभेदार्थकः ।
यत्तु तन्त्रराजे-
-
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri