This page has not been fully proofread.

XXX
 
[तन्त्रमार्गप्रवर्तनावश्यकता]
 
एवं स्थितेऽपि यदि कदाचित् प्राक्तनसंस्कारविशेषवशात् केचन
स्वीयानाद्यविद्यापरवशाः सन्त एव सजातपरमात्माभिमुख्याः भवेयुः तर्हि
तेषां का गतिः ? इत्यालोच्य तदुद्धारायैव नानाविधाः तन्त्रमार्गा अपि
तदा तदा किञ्चिन्निमित्तीकृत्य परमेश्वरेणैव परिकल्प्य प्रवर्तिताः ।
 
"तदित्थमगतौ मयि प्रतिविधानमाघीयतां
 
स्वबुद्धिपरिकल्पितं किमपि रङ्गधुर्य ! त्वया ॥" (अमीतिस्तवः)
इत्यप्यनुपदमेव अनन्यशरणाः तमेव प्रार्थयन्ति ।
 
[मुक्तिमार्गवैविध्ये हेतुः]
 
एष भारतीयो मार्गः – यत् अनादिवासनाधीन प्रत्यक्षसिद्धतारतम्ये
संसारे स्मिन् न सर्वेषां दोषाणां एकमूलिकाप्रयोगेण परिहारं कर्तुं प्रयतन्ते,
तथा प्रतारयन्ति वा । न च तथा कश्चित् सर्वथा दूरीकर्वन्ति । स्वसंस्कारानु-
गुणं सर्वोऽपि श्रेयः साधयेत् इत्येव महान् विशालश्च भारतीयानामाशयः ।
यथा हि सर्वेषामपि रोगाणां एकमेवौषधं प्रयुञ्जन्तं भिषजं भिषक्कल्पं वा न
कोऽप्यभिनन्देत्, 'त्वद्रोगस्यौषधं न मय्यस्ती ति वदन्तं वा न कोsपि प्रशंसेत् ।
किन्तु तत्तद्रोगानुगुणं विविधैर्भेषजैः सर्वानपि चिकित्सन्तमेवाभिनन्देयुः ।
एवमेव विचित्रेषु विविधेषु च भवरोगिष्वपि उच्चनीचभावना वा, तद्रोगशाम-
कौषधरूपेषु नानाविधेषु मार्गेषु उत्तमादिविभागकल्पना वान विषयानुगुणा,
प्रत्युतानर्थावहैव नूनम् ।
 
तत्र रोगः असङ्कीर्णश्चेत्, औषधमप्यसङ्कीर्ण भवेत् । रोगसाङ्कर्ये
च औषभ्रमपि तदनुगुणं सङ्कीर्णरूपं भवेत् । नूतनमेव वाऽन्यत् । चतुरेण
चिकित्सकेन एतत्सर्व परिशील्यैव मेषजं देयं भवति । तथैव भवरोगस्यापि,
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri