This page has not been fully proofread.

भाष्यस हिता
 
२७५
 
वसन्तादिऋत्वभेदभावनं,
 
मधुरादयो यदा रसनयानुभूयन्ते तदा तादृशानुभूयमानत्वविशिष्टषु तेषु
केवलानां तु तेषां स्वाभिन्नपदार्थान्तरनिष्ठत्वेन
मनसः परावृत्त्यापत्तेः, अस्या भावनायाः प्रत्यम्वृत्त्यभ्यासरूपत्वेन तदितरनि-
रोधायोगात् । अत एव रसनाभाव्यत्त्वविशेषणम् । तेन त्वगादिनिष्ठानां
व्यावृत्तिरिपि फलति ॥ तन्त्रराजे तु -
 
रत्नद्वीपो भवेद्देहो नवत्वं तु त्वगादिभिः ।
 
सङ्कल्पाः कल्पतरवः स्वाधारा ऋतवः स्मृताः ॥
 
इत्युक्तम् । अत्र स्वाधारपदेन डाकिन्यादियोगिनीषट्चक्राघारभूतानि सुषुम्नान्तर्ग-
तानि षट्चक्राण्युच्यन्ते । सुषुम्नाया इडापिङ्गलात्मकचन्द्रार्कसंयोगेनानुमित-
कलात्मकतया तद्गतानां चक्राणामृत्वात्मकत्वं युक्तमिति व्याचक्षते । वस्तुतः
प्रत्यक्ष श्रुत्यनुरोध्रात्स्वानुभूयमानरसपरत्वमेव स्वाधारपदस्य युक्तम् । ननु
भाव्यमान इति शानचा वर्तमानकालकथनात् उपास्तिकाले अनुभूयमानरसाभाव
इति चेत्, न, अनुभवानामेव संस्कारात्मना तदानीमपि सत्वात्, स्वमात्मा
आधारस्समवायी येषामिति व्युत्पत्त्या स्वाधारपदस्य रसानुभवजन्यसंस्कार पर-
त्वस्यैव सृवचत्वात्, डाकिन्यादीनामितः पूर्वमनुपस्थिततया स्वपदेन तत्परामर्शी-
योगात्, वैद्यके ऋतुभेदेन रसव्यवस्थायाः कथनेन ऋतुरससंस्कारयोरमेदस्य
युक्तत्वाच्च । एवंरीत्योपपत्तौ शाखान्तरमूलकत्वानुमितेरप्रसङ्गाच्च । इहाश्वगजानां
परिखामण्टपयोश्च भावनोपसंहारः ॥
 
-
 
ज्ञनमर्थ्य ज्ञेयं हविः ज्ञाता होता ज्ञातृज्ञानज्ञेयानामभेदभावनं
श्रीचक्रपूजनम् ॥ १० ॥
 
एतच्चोपबृंहितं तन्त्रराजे -
 
ज्ञाता स्वात्मा भवेद् ज्ञानमर्ध्य ज्ञेयं हविः (बहि:) स्थितम् ।
श्रीचक्रपूजनं तेषामेकीकरणमीरितम् ॥ इति ।
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri