This page has not been fully proofread.

भावनोपनिषत्
 
२७४
 
स्तद्द्बुद्धिं जनयित्वा उन्मार्गप्रवर्तिकाः शक्तयः स्वमायापदेनोच्यन्त तु इति
 
मनोरमाकारः ॥
 
देहो नवरत्नद्वीपः ॥ ६ ॥
त्वगादिसप्तधातुरोमसंयुक्तः ॥ ७ ॥
 
सङ्कल्पाः कल्पतरवस्तेजः कल्पकोद्यानम् ॥ ८ ॥
 
त्वगादिरित्यतद्गुणसंविज्ञानो बहुब्रीहिः, तेन त्वगेका रुधिराद्यस्थ्य.
न्वाः सप्त लोमानि चेति नवकं नवरात्मकं खण्डनवकमिति सिध्यति ।
अत्रायं सम्प्रदायलभ्योऽर्थः–
रसमांसरोमत्वमुधिरशुक्रमज्जास्थिमेदांसि पुष्प.
रागनीलवैडूर्यविद्रुममौक्तिकमरकतवज्रगोमेधपद्मरागात्म कनवरत्नम यखण्डरूपाणि
प्रतीच्यादिनिऋत्यन्तदिक्षु 'मध्येवस्थितानीति विभावयेदिति । 'सर्वशाखा.
प्रत्ययमेकं कर्म' 'सर्ववेदान्तप्रत्ययमेकमुपासनम्' इति पूर्वोत्तरमीमांसान्या.
याभ्यां गुणोपसंहारस्यावश्यकतया कालचक्रेश्वर्यादिदेवतानवकाभेदोऽप्येतेष्वेव
धातुषु शाखान्तरोक्तो विभावनीयः । तत्प्रकारः प्रयोगविधौ स्पष्टीकरिष्यते ।
• मानसाः सङ्कल्पविशेषा एव सन्तानादिकल्पवृक्षाः, सङ्कल्पपुरस्सरं कर्मसु प्रवृत्त्या
ऽभिमतफलसिद्धेः । तेषामाधारभूतं तेजो मन एव कल्पकोद्यानम् ।
 
'मने
 
ज्योतिः * इति श्रतिव्यवहारादिह सङ्कल्पविकल्पात्मकं मन एव तेजःपवे-
नोच्यते ॥
 
रसनया भाव्यमाना मधुराम्लतिक्तक टुकषायलवणरसा:
षडृतवः ॥ ९ ॥
 
1 मध्ये च स्थि:
 
* तै. सं. १-५-२.
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri