2023-02-16 08:26:51 by ambuda-bot
This page has not been fully proofread.
भाष्यसहिता
देह इत्यनुवर्तते । स्वकीयो देह एव त्रैलोक्यमोहनादिनवचक्र-
समष्टिरूपश्रीचक्राभिन्नः । अवान्तरचऋविभागस्तु आवरणदेवतास्थानैर्व्यक्ती-
भविष्यति । तानि च स्थानानि शाखामेदेनैव विवृतानि, रहस्यत्वात् ।
अत एव तन्त्रराजेऽप्यनुक्तानि, नित्याषोडशिकार्णवे विवृतत्वात् ! तदिदमुक्तं
बिन्दुसूत्रे 'अपरशिवोदितव्या कुलस्थाननिर्णीतिचणदेशिकप्रसादाधिगतविभाव-
नारहस्यमुपह्वरम्' इति । एकः शिवस्तन्त्रकर्ता प्रसिद्धः । अपरश्शिवो
वेदपुरुषः तेनापि व्याकुलतया शाखाभेदेनोक्तानां स्थानानां, निर्णयनसमर्थस्य
गुरोः प्रसादादधिगतं यदीय विभावनारहस्यं तादृशदेहरूपं श्रीचक्रं अपरोक्षानु-
भवोपायेषु रहस्यं इत्युपहरमिति तदर्थः पद्मपादाचार्यैर्वर्णितः । 'अदृशूला
जनपदाः शिवशूलाश्चतुष्पथाः' इति भारतश्लोके शिवशब्दस्य वेदपरत्वेनैव
प्रयोगात् अपरशिवैः शाखान्तरैरित्यर्थः सुवचः ॥
वाराही पितृरूपा कुरुकुल्लाबलिदेवता माता ॥ ४ ॥
पुरुषार्थास्सागराः ॥ ५ ॥
स्वदेहे ज्ञानेन्द्रिय कर्मेन्द्रियबुद्धयादिषु संक्रान्ता ये जनकजनन्योरंश-
विशेषाः अस्थ्यादिमांसादिरूपास्ते वाराहीत्वेन कुरुकुल्लात्वेन कामाद्भावनीयाः ।
वाराह्याः स्त्रीत्वेऽपि तन्मुखस्य पुंरूपत्वात्पितृरूपतोपपत्तिः । पश्चिमाधुत्तरान्तदिक्षु
विद्यमाना इक्ष्विराघृतक्षीरसागराः स्वीयधर्मादिपुरुषार्थचतुष्टयरूपाः । तन्त्रराजे-
ऽप्युक्तम्-
बलिदेव्यः स्वमायाः स्युः पञ्चमी जनकात्मिका ।
कुरुकुल्ला भवेन्माता पुरुषार्थास्तु सागराः ॥ इति ।
अत्र प्रथमश्चरणः शाखान्तरमूलकः सर्ववेदान्तप्रत्ययन्यायेनोपास्त्यैक्येsपि
न तस्योपसंहारः, कुरुकुल्लाया एव बलिदेवतात्वविशेषण सामर्थ्यात् । अतरिंग-
18
CC-0. Jangamwadi Math Collection. Digitized by eGangotri