2023-02-16 08:26:51 by ambuda-bot
This page has not been fully proofread.
मालिनीतन्त्रेऽपि -
भाष्यसहिता
स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः ।
आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभवत् ।
गुरोर्लक्षण मेतावदा दिमान्त्यं निवेदयेत् ॥ इति ।
नव-
तादृशविवेकारख्यवृत्य वच्छिन्नचिच्छक्तिस्तु प्राणशक्तिविहारावसाना सुषुम्नाख्या
नाड्येव विमर्शमयीत्युच्यते । श्रीगुरोस्तावद्दिव्य सिद्धमानवभेदेन रूपत्रयम् ।
तत्रैकैकं पुनस्त्रिविधमिति प्रकाशानन्दनाथादिसुभगानन्दनाथान्तभेदेन
रूपता तन्त्रे प्रसिद्धा । तद्वासनामाह–तेनेति । षष्ठ्यर्थे तृतीया ।
तस्याः विमर्शशक्तेः देहः स्वरूपं नवरन्धमयम् । श्रोत्रचक्षुर्नासानां द्वयं
द्वयम् । जिह्वागुह्यपायवः एकैकमिति नवमी रन्धैः स्वस्वविषयविमर्शः
उपादेयोपदेशग्रहणमनुपादेयमोचनादिकं च भवतीत्या दिसाधर्म्यातानि विमर्श-
रूपाण्येव । वस्तुतः 'धान्येन धनी' इतिवदभेदे तृतीया । तदमिन्नरन्ध्र-
नवकवान् स्वदेह इत्यर्थः । तन्त्रराजेऽपि तस्येत्यस्य नवत्व एवान्वयः, न
देहपदेनान्वयः । देहरन्ध्रनवत्वेन गुरोर्नवत्वं भासत इत्यर्थः । स्वदेहगत-
नवरन्ध्राणि नव नाथा इति यावत् ।
तेषु श्रोत्रद्वयं वाक्च दिव्यौषः । दृग्द्वयमुपस्थश्च सिद्धौषः । इतरे
मानवौष इति सम्प्रदायः । एतद्विमर्शनवकस्य मूलभूता सुषुम्नानाड्येव,
सरन्ध्रसुषुम्नामूलभागे श्रोत्रादिनाडीनां मिलितत्वेन सुषुम्नावच्छिन्नचिच्छतेरेव
तत्तन्नाडीद्वारा तत्तद्विषयावभासकत्वात् । नाडीनामवस्थानप्रकारो यथा-
-
गुक्तमूलाधारस्य मध्यस्थत्र्यश्रमध्यतः ।
`सुषुम्नापृष्ठवंशाख्यवीणादण्डस्य मध्यगा ।
मूर्धनि ब्रह्मरन्धान्ता नासाग्राद्वादशाङ्गुला ।
तन्मूलात्पायुगा प्रोक्ताऽलम्बुसाख्या तु नाडिका ॥ ॥
२७१
CC-0. Jangamwadi Math Collection. Digitized by eGangotri