This page has not been fully proofread.

भावनोपनिषत्
 
२७०
 
द्विलक्षणा स्तन्त्रेषूपलभ्यन्ते, तथापि प्रकृतोपनिषदि का दिमतानुसारेणैव
*#
वर्ण्यन्ते । कादिमतेनान्तश्चक्रभावनाः प्रतिपादिताः, 'य एवं वेद' इसुप -
संहारात् । तेनास्यामेवोपनिषदि शाखाभेदेन पाठभेददर्शनेऽपि कादिमती
यतन्त्रसूत्रायुपबृंहणानुगुणं पाठमनुसृत्येहास्माभिर्व्याख्यायते । अत एव प्रयोग-
विधिलेखनावसरे प्रकृतशाखायामश्रयमाणोऽप्यंशोऽपेक्षितत्वान्नित्याहृदयतन्त्र.
राजबिन्दुसूत्रादिभ्य उपसंहृत्य वर्णयिष्यते ॥
श्रीगुरुः सर्वकारणभूता शक्तिः ॥ १ ॥
 
तेन नवरन्ध्ररूपो देहः ॥ २ ॥
 
इदं च वाक्यद्वयमुपंवृहितं तन्त्रराजे-
-
 
गुरुराद्या भवेच्छक्तिः सा विमर्शमयी मता ।
नवत्वं तस्य देहस्य रन्ध्रत्वेनावभासते ॥ इति ।
 
अत्र 'आद्या' इति 'सर्वकारणभूता' इत्यस्य विवरणं, कारणस्य
कार्यपूर्वभाबित्वेनाद्यत्वात् । ईश्वरानुग्रहवशेन जायमानो विवेक एव सर्व-
संशयमेदनेन मन्त्रवीर्यप्रकाशनेन तात्त्विक पदार्थानामवकाशप्रदानाद्विमर्शपदा-
मिषेयो गुरुः । गुर्वभिन्नरन्ध्रवान् ।
 
तदुक्तम् – 'गुरुरुपायः' इति शिवसूत्रे वार्तिककृता-
गुरुरेव परा शक्तिरीश्वरानुग्रहात्मिका ।
अवकाशप्रदानेन सैव यायादुपायताम् !
अकृत्रिमाहमामर्शस्वरूपाद्यन्तवेदनात् ।
परमेष्ठिसमत्वेन परमोपायता गुरोः ॥ इति ।
 
* मतभेदेन परस्परविलक्षणा - ख.
 
-
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri