This page has not been fully proofread.

xxix
 
भवरोगेणाऽऽधिना पीडितः गुरुमुखसंपादितसंस्कारकलापः क्रमात् शुद्धो भवन्
ज्ञानमार्गाधिकारं सम्पादयत्येव । अत्रेमानि प्रमाणानि -
 
"स्वाध्यायेन व्रतैः होमैः त्रैविद्येनेज्यया सुतैः ।
 
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ (मनुः 12. )" इति,
"कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ।" इति,
"तपो विद्या च विप्रस्य निःश्रेयसकरावुभौ ।
तपसा कल्मषं हन्ति विद्ययाऽमृतमश्नुते ॥" इति,
 
"चित्तस्य शुद्धये कर्म" (विवेकचूडामणिः) इति च ।
इमानि हि यथावत्संस्कारकला पस्यात्यावश्यकतां बोधयन्ति । एतएव संस्काराः
वर्णाश्रमधर्माः इत्यप्युच्यन्ते ।
 
[ तादृश कर्मकलापेष्वपि प्रमादतो वैकल्यस्यावर्जनीयता]
 
परं तु अत्रापि कालक्रमात् क्लेशा: नानाविधाः अवातरन् । क्रमशः
क्षीणशक्तीनां अवर्जनीयनानाविधसांकर्यकलुषितप्रकृतिप्रवृत्तीनां कर्मकर्तसाधन-
वैगुण्यादिना संस्काराः सर्वेऽपि यथावत्फलमाधातुं नैव प्राभवन् । अनाहित-
संस्कारफला एव अनेके स्वधर्मात् सुदूरं गताः । सदा जागरूकाणामपि यतः-
कुतश्चित् सांकर्यमनिवार्यमापतत्येवेति स्थिते, प्रायोऽप्रबुद्धानां प्रमादैकस्वभावानां
विषये किमु वक्तव्यमस्ति ? प्रतिनियताधिकारिकेण श्रौतस्मार्तकर्मकलापेनापि
न सर्वैः उचित साधयितुं शक्येत । यतः सर्वे कर्मकलापाः सम्भावित-
कर्मकर्तृसाधनवैगुण्यवन्त एव भवन्ति ।
 
"अनुक्षणसमुत्थिते दुरितवारिधौ दुस्तरे
 
यदि क्वचन निष्कृतिः भवति सापि दोषाविला ।" (अभीतिस्तवः)
 
इति ह्यमियुक्ताः ।
 
'
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri