This page has not been fully proofread.

२६५
 
वेदरूपा पराशक्तिर्मम लोके प्रवर्तते ।
तयाधिष्ठानि कर्माणि कुर्वन्ति सुरसत्तमाः ॥
देवर्षयो राजर्षयो व्यासादिमुनयस्तथा ।
तैः प्रणीतानि सर्वाणि कल्पसूत्रमुखानि वै ॥
धर्मशास्त्रपुराणानि सेतिहासस्मृतीनि च ।
ज्ञेयानि वेदवत्तानि नात्र कार्या विचारणा ॥
 
इति । अत्र बहुकारणेषु एकक्रियायोगात् मालादीपकालंकारः ॥
 
CC-0. Jangamwadi Math Collection. Digitized by eGangotri