2023-02-16 08:26:50 by ambuda-bot
This page has not been fully proofread.
२६४
-
ग्रहाय शरीरपरिग्रहस्तर्हि भक्तषु तारतम्यं कुतः ? कश्चिद्राजा, कश्चित्प्रभुः
कश्चिद्दरिद्रः, कश्चिद्विरक्त इत्यत आह — नीतिनिपुणे इति । नीतिनिपुणे ।
नीतौ निपुणा। यादृशो यस्यानुग्रह उचितः अनाद्यविद्यासंवलिततत्कर्मानु-
बद्धः तादृगनुग्रहः । तर्हि कर्मपारतन्त्र्यं भगवत्याः, न तु स्वातन्त्र्य-
मित्यस्मदादिवत्सा जातेत्यत्राह-निराघाटज्ञान इति । आघाट: इयत्तापरिमाण-
घटना, निराघाटः अखण्डः तादृशसंविदुल्लासरूपे । अस्याः सान्निध्यवशात्
तत्तच्छक्तिसमवायेन तत्तत्कर्मानुग्रहो भवतीत्यर्थः । एतादृशी कथमुपास्या भवति?
ध्यानादिमिराकलितुमयोग्यत्वादित्यत आह-नियमेति । नियमपरचित्तैकनिलये ।
ये जपपूजाध्यानादिनियमैरुपासते, तेषां चित्तैकनिलये ! तेषां चित्ते आविर्भूय
प्रकाशत इत्यर्थः । तर्हि भगवत्याः नियमपरचित्तैकनिलयं प्रकाशमानता
नान्यत्रेति नियतिपरतन्त्रता जाता इत्यत आह-नियत्येति । नियत्या
निर्मुक्ते ! लीलया नियमपरचित्ते प्रकाशते नतु नियतिपरतन्त्रतया । यथा
कल्पद्रुमः सर्वसाधारणोऽपि सेवापराणां फलदाता, नान्येषां, यथा वा सूर्यः
जलादौ निर्मले वस्तुनि प्रतिबिम्बते, नान्यत्र, तेन न सूर्यस्य नियतिपारतन्त्र्यं
तथेति भावः । एतस्या देवतायाः सद्भावे किं प्रमाणमित्यत आह - निखिलेति ।
निखिलनिगमान्तस्तुतपदे ! निगमाः वेदान्ता उपनिषदः ताभिरुपलक्षितपदे;
उपनिषदः प्रमाणमित्यर्थः । केन प्रकारेण स्तुतपदा ? तमेव प्रकारमाह -
• निरातङ्के इति । निरातङ्के नित्ये ! तथा च श्रुतिः "अभयमक्षरममित मनण्व-
स्थूलमविकारं केवलं चिन्मात्रमयं ब्रह्म" इति । एवंप्रकारेण स्तुते इति ।
निगमय ममापि स्तुतिमिमां; निगमय-निगमीकुरु । तत्करोतीत्यर्थे चि
वेदमिव सर्वसंप्रतिपन्नां कुरु । यथा वाल्मीकियासादीनां वाचः स्मृतिपुराणेति-
हासादयः निगमवत् सर्वसंप्रतिपन्नास्त्वया कृताः, तथा ममापीयं स्तुतिः निग-
मीक्रियतामित्यर्थः । तथाच कौमें भगवत्या वचनं हिमवन्तं प्रति,
CC-0. Jangamwadi Math Collection. Digitized by eGangotri